________________
मेर्वादिविंशका नाम सप्तपञ्चाशोऽध्यायः ।
सार्धं भागद्वयं कार्यो वेदिन्यस्तु शोभनः अर्धकुम्भे मर्देच मेखलां समसूरक: (१) ॥ जङ्घा साचतुर्भागा कार्योट्रायेण शोभना । मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
खुरका (द) मेखला यावत् सप्तभागान्तरं भवेत् । भागाभ्यां राजसेनं च कुर्याद वेदीं च सासनाम् ॥ त्रिभागं स्तम्भमुत्सेधाद् भागस्यार्धेन हीरकम् । भागा स्तम्भशीर्ष स्याद भागः पट्टस्य चोन्नतिः || सूर्यच्छाद्य द्विभागः स्वाद् भागेनैकेन लम्वना ( ? ) । शृङ्गोत्सेधस्त्रिभागच कलशाण्डकसंयुत (म्::) || चतुर्भागोन्नतः सिंहकर्णः पद्मागविस्तृतः । कुर्वीत भृतयोरूर्ध्व शोभनां मूलमञ्जरीम् ॥ अष्टाभागप्रविस्तीर्णां नवभागसमुच्छ्रि (तताम् ) | स्कन्धः पञ्चपदो ज्ञेयो ग्रीवा चार्धपदोच्छ्रिता | अण्डकं भागमात्रं स्यादूर्ध्वं भागेन चन्द्रिका | वर्तुलः समविस्तारः कलशस्तु द्विभागिकः ॥ भद्रे वराटकाचे कर्तव्या हेमकूटवत् । यः कुर्यात् कारयेद् यस्तु सिद्धार्थं सर्वकामदम् || स भवेत् सर्वकामाप्तिः शिवलोके च शाश्वतः ।
सिद्धार्थः ॥
अथाभिधीयते सर्वपापन्नः शङ्खवर्धनः || आलयः सर्वदेवानां प्रासादो भूभृतां प्रियः । चतुरश्रे समे क्षेत्रे (गर्भा कर्णे?) विशोधितम् || वर्तुलं कारयेत् पश्चात् सर्वकोणेषु लाञ्छितम् । विस्तारार्धे भवेद् गर्भो यच्छेषं तेन (भर्ति: १) ॥ द्विगुणं कारयेदूर्ध्व भागविंशतिभाजिते । तुलोदयोऽष्टभागः स्याद् द्वादशांशा च मञ्जरी |
"Aho Shrut Gyanam"
६१