________________
समराङ्गणसूत्रधारे पूर्वतः कारयेद् द्वारं चतुर्गभेऽत्र मन्दिरे । ऊर्ध्वमानं तु वक्ष्यामः प्रासादस्यास्य सम्प्रति ।। पीठं द्विभागिकं कार्य वेदीवन्धो द्विभागिकः । जङ्घा पदचतुष्कं च शोभिता रूपकर्मणा ।। पदद्वयं तु कर्तव्यं (हीन सातपत्रकम् । कलशाण्डकयुक्तानामुच्छायत्रिपदो बुधैः ।। कर्तव्यः कर्णशृङ्गाणां सर्वेषामपि मानतः । चतुष्पदोचा वलभी घण्टाकलशसंयुता ।।। मल्लच्छाद्यत्रयं कुर्यात् कर्णशृङ्गस्य चोपरि । युक्तमन्तरपत्रेण भागोच्छ्रायं पृथक् पृथक | भागेनैकेन घण्टा स्याद (भद्राभागाभ्यां कलशाण्ड के । समूलकलशे कर्णे मूत्रं सम्पातयेद् बुधः ।। मल्लच्छाचं विधातव्यं मूत्रेणैकेन लाञ्छितम् । प्रासादमेवं पूर्णायुर्यः कुर्याद् भक्तिमानिमम् ।। (सप्तकामः+) पुरुषः (सश)वलोके महीयते ।
सिद्धार्थमथ वक्ष्यामः सर्वकामार्थसिद्धिकीद)म् ।। कामाः सिध्यन्ति यत्कर्तुरिहलोके परत्र च । चतुरश्रे समे क्षेत्रे विभक्त दशभिः पदैः ।। कुर्वीत षट्पदं गर्भ ++चास्य चतुष्पदम् । भागेनेकेन रमणीं बाह्यभित्तिं च भागिकीम् ।। कुर्वीत द्विपदान् कर्णाञ् शालां पडभिः पदैर्बु(धौधः) । तदा कर्णशृङ्गाश्च?ङ्गं च) यथाशोभं प्रकल्पयेत् ।। त्रिपदं निर्गमं तस्याश्चतुष्कीच चतुर्दिशम् । मध्ये बहिश्च कुर्वीत तस्या द्वारचतुष्टयम् ।। उन्नतं भागविंशत्या मानमस्योर्वतो भवेत । त्रिपदः पीठबन्धः स्याद् द्विगुणोच्छ्रायवाह्यतः ॥ १. 'आसकामः सु' इति स्यात् ।
"Aho Shrut Gyanam"