________________
५६
समराङ्गणसूत्रधारे
(आयपीठांच्या प्रोक्ता मूलभूताभिवास्तुनः १) | खुरकच पदार्धन (सार्वभागे कुम्भपूरक : 2 ) || भागेनैकेन कलशः समवृत्तोऽतिसुन्दरः । भागं सपादं कुर्वीत मेखलान्तरपत्रके ||
भागे (नुनो) च्छ्रिता जङ्घा भागाधं ग्रासपट्टिका | कर्णे चैकेन भागेन भागा (कुणपो ) भवेत् ॥ भागेन हीरकं कुर्याद् यथा शोभा प्रजायते । मेखलान्तरपत्रे च सार्धभागेन कारयेत् || ऊर्ध्वतः पदयोर्मध्ये स्यात् सार्घद्वादशांशकम् | तन्मध्ये सार्धभागं तु राजसेनं सपट्टकम् || द्वौ भागौ वेदिका भागस्यार्धमा सनपट्टकः । भागं चन्द्रावलोकं स्यात् स्तम्भमासनमूर्धनि || निवेशयेत् पञ्चभागं भरणं भागिकं ततः । भागमेकं समुच्छ्रा (यां?यः) शीर्षकं द्विगुणायतम् ॥ पट्टस्य कुर्यादुत्सेवं भागमर्धसमन्वितम् । सार्धभागद्वयं बाह्यं (तद्रूपं दूतावलं छिवितम् ? ) ॥ atri छास्योर्ध्वे कार्या वासनपट्टिका । विराजमाना सा कार्या रूपग्रासवरालकैः || मेखलान्तरपत्रे (बुतु) भागाद् रूपसमन्विते | भागद्वयेन कर्तव्या द्वितीया मेखला बुधैः ॥ कूटान्यतः परं कुर्यात् कर्मयुक्तानि सर्वतः । कूटेषु कुर्यात् प्रत्येकं सिंहकुम्भसमन्वितम् (१) ॥
रोमञ्जरिका तानि भवेत्येव (!) यथाक्रमम् | अष्टाण्डकत्रयान्तेषु पडण्डं स्याच्चतुष्टयम् ||
चतुरण्डं द्वयं कृत्वा त्वेवं कर्णे विदुर्बुधाः (१) । नव कुण्डानि (!) तुल्यानि विस्तारेण पदद्वयम् ॥
१. 'कोणयोः' इति स्यात् ।
"Aho Shrut Gyanam"