________________
समराङ्गणसूत्रधारे कर्तव्यः सप्तभिर्भागः सिंहकर्णः सुचर्चितः । कर्णद्वये तथा शृङ्गे तयोरुवं चतुर्दिशम् ।। १९३ ।। उरोमञ्जरिकायामादुदया(?)दश पञ्च च ।। तस्याश्चाष्टपदः कन्दो ग्रीवा भागसमुन्नता ॥ १९४ ॥ द्विभागमण्डकं कार्य चन्द्रिका पदमुच्छिता । त्रिपदाः कलशास्तेषां मध्यगान्तरमञ्जरी ।। १९५ ।। (तला?लता)पञ्चकसंयुक्ता चरटक्रिययान्विता । भागविंशतिविस्तीर्णा कर्तव्या मूलमजरी ।। १९६ ।। द्वाविंशतिसमुन्सेधा स्कन्धो द्वादशभागिकः । मध्या लता (मूशू )रसनकर्मरूपसमाकुला ।। १९७ ।। ग्रीवा सार्धपदोत्सेधा कार्या द्विपदमण्डकम। भागेन (चौमाण्डिकां कुर्यात् कलशं तु चतुष्पदम् ।। १९८ ॥ एकोनत्रिंशदण्डोऽयं प्रासादः शुभलक्षणः । पटपदं पीठमाख्यातं चरितं पूर्वकर्मवत् ।। १९९ ॥ आरोग्यं पुत्रलाभश्च भवेद विजयकारिणाम् । तेषां तुष्यति पदवको भक्तया ये विदयत्यमुम् ।। २०० ।।
विजयभद्रः ।। अधुना श्रीनिवासाख्यः प्रासादः सम्यगुच्यते । तृप्त्यर्थमेव क्रियते जयश्रीस्तत्र तिष्ठति ।। २०१ ॥ चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः । अन्धारिका च भि(तेत्तिश्च पदे द्वे द्वे यथाक्रमम् ।। २.०२ ॥ गर्भश्च षट्पदः कार्यः श्रीनिवासस्य सुन्दरः । कन्दे स्युर्द्विपदाः कर्णा भागेन सलिलान्तरम् ।। २०३ ॥ भद्रं चतुष्पदं का पदेनैकेन निर्गतम् । वाद्याः स्युत्रिपदाः कर्णा भद्रश्च द्विपदैर्युताः ।। २०४ ।। भद्रं चतुर्थकर्णे(पु?तु) पदेनकेन निर्गतम् । कोणकोणाश्च कर्तव्याः पदस्या समायताः ॥ २०५॥
"Aho Shrut Gyanam"