SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । एष त्रिमूर्तिनिलयः कार्यो नान्यस्य कस्यचित् | हेमकूटः || हिमवतुल्यसंस्थानं प्रासादं परिकल्पयेत् || १८७ ॥ तस्य मध्ये विधातव्यः सर्वतोभद्रसंज्ञितः । वर्जनीयं तु तन्मध्ये वर्धमाननिवेशनम् ॥ १८८ ॥ ततः स्थानेषु सर्वेषु खण्डरेखा निवेशयेत् । व्यासोच्छ्रितैस्ततः सिंहकणैर्भद्रं विभूषयेत् ॥ १८९ ॥ ऊर्ध्वं च शिखरं तस्य वर्जनीयं विचक्षणैः । द्वे द्वे च रथिके कार्ये सपादशकोच्छ्रिती ॥ १९० ॥ तयोश्चोपरि विस्ताराच्छिखरं चतुरश्रकम् I उच्छ्रयः पञ्चभिः साधैर्विधेयः शिखरस्य च ॥ १९१ ॥ दिक्सूत्रेषु च सर्वेषु क्रियामेव प्रकल्पयेत् । बाह्यरेखा तु जङ्घा च हिमवत्सदृशी स्मृता ॥। १९२ ।। कैलासोऽयमिति ख्यातः कर्तव्यः शूलपाणये । कैलासः ॥ एतस्यैव यदा भद्रमुच्छ्रितं सिंहकर्णः || १९३ ॥ द्वे द्वे च रथिके तत्र दी (य? ये) ते सुमनोरमे । शेषः शिखरविस्तारः पञ्चभावसमुच्छ्रितः ॥ १९४ ॥ प्राग्ग्रीवकाच भद्रेषु भागभागविनिर्गताः । विस्तारेण चतुर्भागा दिक्षु सर्वास्वयं विधिः ॥ १९५ ॥ विमानसदृशी चास्य बाह्यलेखा विधीयते । गुणैरेभिस्तदा युक्तः प्रासादः पृथिवीजयः ।। १९६ ॥ पृथिवीजयः ॥ भक्ते षोडशभिः क्षेत्रे चतुरश्रे समन्ततः । गर्भोऽष्टवर्गः स्यात् तस्य मध्ये भित्तिद्विभागिका ॥ १९७ ॥ भ्रमणं बाह्यभित्तिश्च तत्समे एव कीर्तिते । कर्णेषु रथिका कार्या सलिलान्तरभूषिता ॥ १९८ ॥ " Aho Shrut Gyanam" २९
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy