SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ বঙ্গানুপথাৰ दर्शयेचलता तेन हस्तेनासंयुतेन च । स्वेदापनयनं कार्य ग(त्वान्धा)घ्राणं तथामुना ।। ८२ ।। सत्मदेशे प्र(वृत्तेन) पाणिना नृत्तकोविदः । योषितां विषये चैष (पाणिना?) मायेण युज्यते ॥ ८३ ।। कर्माण्येतानि सर्वाणि त्रिपता(कः सकवादाचरेत् । नाहमित्यभिनेतव्य(मस्यादश?)स्थितेन च ॥ ८४ ॥ अस्यानुयायिनी दृष्टिं विदधीत भ्रवौ तथा । इत्यरालः ॥ अराल(क्रस्य) यदा वक्रानामिका त्वगुलिर्भवेत् ।। ८५ ॥ शुकतुण्डः स विज्ञेयः कर्म चास्याभिधीयते ।। न त्वमित्यमुना तिर्यक् प्रसृतेन प्रदर्शयेत् ॥ ८६ ॥ व्यावृत्तेन तु हस्तेन (मीन) कृत्यमिति निर्दिशेत् । प्रसारितेन पुरतो नमताभिमुखं मुहुः ॥ ८७ ।। कुर्यादावाहनं तिर्य (++ मातु?) विसर्जनम् । व्यात्तेन तु हस्तेन न कृत्यमिति वारताम् (१) ।। ८८ ॥ (अपेक्षे निपोनिषेक अ) परावृत्तेन शस्यते । दृष्टिभ्रो चानुगते हस्तस्यास्य समाचरेत् ॥ ८९ ॥ तुण्डः ॥ अगुल्यो यस्य हस्तस्य तलमध्ये ग्रसंस्थिताः । तासासुपरि चाङ्गुष्ठः स मुष्टिरभिधीयते ।। ९० ॥ एष प्रहारे (व्या)यामे कार्यः सभृकुटीमुखैः । पार्श्वस्थहस्तयुग्मेन निर्गमे तु विधीयते ॥ ९१ ॥ इति मुष्टिः ॥ १. 'खेदापनय' इति मुद्रितमुनिपाठो दृश्यते। २. 'पाणिः' इति स्यात् । ३. 'मास्यदेश' इति स्यात् । ४. 'इनमता तु' इति स्यात् । ५. इदं ९२ तमश्लोकान्वे निवेधनीयमिति भाति । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy