SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ पताकादिचतुःषष्टिहस्तलक्षणं नाम व्यशीतितमोऽध्यायः। ३०४ सोऽर्धचन्द्र इति प्रोक्तः करः कर्मा(चस्य) कथ्यते । सेनोन्नतभ्ररेफेन शशिलेखां प्रदर्शयेत् ॥ ७० ॥ (मध्यस्यौ यस्य?)मायस्तं कुर्यानिर्घाटनं तथा। पीनं वालनुमाः (क)म्बु कलशा वलयानि च ॥ ७१ ॥ प्रदर्शनीयान्येतेन संयुतेनेति चापरे । रशनाकुण्डलादीनां तलपत्रस्य चामुना ॥ ७२ ॥ कटीअघनयोश्चाभिनयस्तदेशवर्तिना। अस्याप्यनुगता दृष्टिः कार्या) सर्वत्र नर्तकैः ॥ ७३ ॥ इत्यर्धचन्द्रः ।। आधा धनुर्नता कार्या कुश्चितोऽङ्गुष्ठकस्तथा । शेषा भिभोर्ववलिता अरालेऽङ्गुलयः स्मृताः ॥ ७४ ॥ (अमृतेनाग्रतोतेन?) किञ्चिदभ्युत्थितेन च । सत्वशौण्डीर्यगाम्भीर्यधृतिकान्तीः प्रदर्शयेत् ।। ७५ ॥ दिव्याः (पापार्ध?) ये चान्ये तानप्यविकृताननः। . दर्शयेदुन्नतभ्रश्च पाणिनानेन नतेकः ॥ ७६ ॥ आशीर्वाद (तथा कानांह) स्त्रीकेशग्रहणं च यत् । निवर्णनं च सर्वाङ्गमा(लात्म)नो यद् विधीयते ॥ ७७ !! उत्कर्षणं च तत् सर्व कार्यमभ्युन्नतभ्रवा । दर्शयेद्धस्तयुग्मेन प्रदक्षिणगतेन च ।। ७८ ।। विवाह संप्रयोगं च कौतुकानि बहूनि च । अगुल्यग्रसमायोगरचितस्वस्तिकेन च । ७९ ॥ परिमण्डलयातेन प्रादक्षिण्यं प्रदर्शयेत् । परिमण्डलसंस्थानं तथानेन महाज(ल?न)म् ।। ॥ ८० ॥ द्रव्यं महीतले यच्च रचितं तत् प्रदर्शयेत् । दानं वारणमाहानमनेक (वचनं तथा) ॥ ८१॥ १. मध्यमौपाय' इति स्यात् । २. 'स्तृतेनाग्रतोड़नेन' इति स्यात् । ३. 'पदार्था' इति स्यात् । ४. 'तथैकेन' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy