________________
समराङ्गणसूत्रधारे पुरप्रसर्पिणाधौत हस्तानुगतदृष्टिना । निघृष्टतलहस्तेन भ्रकुट्या मृदितं पुनः ॥ ३४ ।। प्रघृष्टमेकरूपेण द्वितीयेन प्रसर्पता । (तेन?)स्योपरि हस्तेन निविष्टेन विधीयते ॥ ३५ ॥ (अन्योन्य)घर्षणा(त्येत् पि)ष्टं भ्रकुट्या च (प्रदर्शयेत् । पार्थस्थितेन शैलेन्द्रं दूरविष्फारितेन च ।। ३६ ॥ प्रदर्शयेत् समुत्क्षिप्य(मोमा?) भ्रलतिकां शनैः । शैलधारणमन्योन्य(श?स)क्तेनाभिमुखेन च ॥ ३७॥ पार्श्वयोः सम्प्रवेश्याधः कृ(कीत)भ्रकुटिना ततः । कार्यमुत्क्षिप्यमानेन शैलपोत्पाटनं तथा ॥ ३८ ॥ शिरःप्रदेशसंस्थेन दरमुत्तानितेन च ।। समुन्नतभ्रवा कार्या पर्वतोद्धरणक्रिया ॥ ३९ ॥
ताकहस्तः ।
पताके तु यदा वक्रानामिका त्वगुलिर्भवेत् । त्रिपताकः स विज्ञेयः कर्म चास्याभिधीयते ॥ ४० ॥ (अयं ++ अविचलन्मध्याकनिष्ठिकः । अनोहेन विधातव्यो न(तुत) मूनो तथा मनाक् ॥४१॥ उन्नामेन समुरिक्षप्तपुरमारो)भागेन चामुना । नमता शिरसा कुर्यात् तथा(चव)तरणक्रियाम् ॥ ४२ ॥ पार्वतः सर्पता कार्यममुनैव विसर्जनम् । पराङ्मुखाना(रयोग्रः) भ्रुकुटि विरचय्य वा ॥ ४३ ॥ वारणं पार्श्वसंस्थेन प्रवेशोऽधो नतेन च । प्रवेशं कुर्वताकारो (वेकुब्जमविकारिता) ॥ ४४ ॥ उत्क्षिप्ताङ्गुलियुग्मेन तथोत्तानेन चामुना । उन्नामनं विधातव्यमविकारिमुखेन च ॥ ४५ ॥ । 'मनाग्' इति स्यात् । २. 'धारणम्' इति मुद्रितमुनिपाठो दृश्यते ।
"Aho Shrut.Gyanam"