________________
२८६
समराङ्गणसूत्रधारे पृधुवक्त्रा कटीहस्वा इस्वग्रीवा पृथदरी । पुंषत्काण्डकतुल्या(?) स्यात् सा नारी पौरुषी मता ॥ ९४ ॥ अल्पकायशिरोग्रीवा लघुशाखा भवेञ्च या । कृशाल्पब्रह्मसचा च सा नारी बालकी स्मृता(?) ॥ ९५ ॥ पुंस्पर्शात् पश्यता(!)या स्यात् कौमारे प्राप्तयौवना । अन्या सा बालकी प्रोक्ता स्त्रीलक्षणविचक्षणैः ।। ९६ ॥ [भुवः सद्वियवामात्रा लेखा कृशयवाङ्गुलाः। दक्तोयमन्तरे वर्त्म ताराय अर्धमालिखेत् ।। ९७ ।। स्वैत्यं चतुर्यवं दृश्यशेष सा तिरस्कृतम् । कपोतरेखा परतो यववर्जितमङ्गुलम् ॥ ९८ ॥ सूत्रापूर्वपटान्तः स्यादर्धाङ्गुलमितेन्तरे । नासिकान्तोऽङ्गुलं सूत्रात् परे पूर्वेतपाङ्गुलम् ॥ ९९ ।। मूले नासापुटः सादः सूत्रं गोज्याश्च मध्यगम्?] । यवार्धमात्रा गोजी स्यादुत्तरोष्ठः परस्य यः ॥ १०० ।। स ब्रह्ममूत्रादारभ्य विज्ञेयो द्वियवोन्मितः ।। परे त्वधस्तानासाया रेखा चार्धामुलैभवेत् ॥ १०१ ॥ परभागेऽधरोष्ठस्य प्रमाणं + यवं मतम् । हनुपर्यन्तलेखाया मध्ये सूत्रं प्रतिष्ठितम् ॥ १०२ ॥ सूत्रात् प्राक् करवीरः स्याद् द्वियवोनागुलद्वयम् । यवाधे स च दृश्येत श्वेत्यं साधेयवं ततः ॥ १०३ ॥ + तारा त्रियवा ज्ञेया शेषमुक्तप्रमाणतः ।। कर्णावर्तादधः कर्णमध्यभागेन संमितम् ?) ।। १०४ ॥ द्वयङ्गुलः कर्णविस्तारः कर्णावर्ताच्चतुर्यवे । शिरःपृष्ठस्य लेखा स्यादिति ज्ञात्वोक्तपाचरेत् ।। १०५ ॥ कर्णसूत्राद् बहिग्रीवा विधातव्यैकमङ्गुलम् । गलो ग्रीवा च हिक्का च सूत्राद् प्रागगुलोत्तरे ॥ १०६ ॥
१. इत उत्तरं वक्ष्याणास्तु प्रकृताध्याय गता विषयाश्चतुरशीतितम श्लोकपूर्वार्धानु गता इति क्यमुन्नेतुम् ।
"Aho Shrut.Gyanam"