________________
ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । २८३
कुर्याखाभिरेताभिः परमागं विचक्षणः । (सूत्राङ्गुलोर्ध्वमात्रायां तस्माद् ग्रीवा यथोदिता ॥ ५८ ॥
सूत्रसंयोगात् पूर्वस्मिन्नङ्ग्गुले सयवेऽङ्गुल: १) | हिक्काध्यर्धाङ्गुलं सूत्रात् पूर्वे स्यात् सुप्रतिष्ठिता ॥ ५९ ॥ बाह्यलेखा हि (बस) त्सूत्रात् परस्मिन्नगुलाष्टके | (ताले यवोनग्रीवातो नग्रीवज्ञेयौनदुर्वकौः) ॥ ६० ॥ हिकासूत्रात् समारभ्य वक्षोभागोऽग्रिकं (?) भवेत् । (तावन्मात्रे तरेवाहुः) तस्मात् प्रभृति निर्दिशेत् || ६१ ॥
हिकासूत्रात् परे भागे स्तन वागुलपञ्चके । रेखान्तसूचकः कार्यो मण्डलं सार्धमङ्गुलम् ॥ ॥ ६२ ॥
तस्मादनन्तरं बाह्यभागमात्रं विनिर्दिशेत् । हिकासूत्रात् समारभ्य स्तनः (पूर्वषडङ्गुलेः ) || ६३ ॥ स्तनात् षडङ्गुले (तिर्यगक्षो स्मा द्वौ ) द्विभागिकः । कक्षतो द्विकलेऽधस्ताद् बाह्य लेखा विधीयते ॥ ६४ ॥
आभ्यन्तरा बाह्यलेखा स्तनात् पञ्चाङ्गु (ले तालेऽन्त) रे । ब्रह्मसूत्राच्च भागेन मध्यभागे (परि) विदुः ॥ ६५ ॥
(मध्यात्त्वकलयावहः परेः) तिर्यम् विभज्यते | मध्यप्रान्तः पूर्वभागे भवेत् सूत्राद् दशाङ्गुलः ॥ ६६ ॥ तिर्यङ् नाभिप्रदेशः स्यात् प ( रतो ) ब्रह्मसूत्रतः । यवैश्चतुर्भिरधिकमङ्गुलानां चतुष्टयम् ॥ ६७ ॥ पूर्वभागे विनिर्दिष्टः स एवैकादशाङ्गुलः । मध्येनैति परस्योरोः सु( त्रः ) नाभ्यन्तराश्रितम् ॥ ६८ ॥ प्रयात्यपरजाच्चैतात् (?) पूर्वतः कलया च तत् । जान्वधोभाग (d) चार्धकलया त्रियवेन च ॥ ६९ ॥
जङ्गामध्येन लेखायाः प्रसक्तं नलकस्य तु । (षांते वैरवं ) परतचतुर्भिः सूत्रमिष्यते ॥ ७० ॥
"Aho Shrut Gyanam"