________________
ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । २८१ मध्ये षडङ्गुला रेखा बाह्यसूत्रात् परे भवेत् । पूर्वस्मिन् बाह्यलेखा तु मध्ये (सास्या)दष्टमात्रका ॥ ३२ ॥ नाभिदेशे परे भागे बाह्यासौ सप्तमात्रका । कलामानं भवेन्नाभिस्तस्याः पूर्व नवाझुला ॥ ३३ ॥ परे भागे कटिः सप्त मात्रा दश च पूर्वतः । ऊरुलेखा परे भागे मुखमानस्य मध्यतः ।। ३४ ॥ प्राग्भागस्य बहिर्लेखा + ++ परजानुतः । (परभागेन्द्रवास्तेश्च सूत्रस्यात् तद्वदगुले) ।। ३५ ।। परस्य नलकस्य स्याल्लेखा प्रागगुलान्तरे । परभागस्य षष्ठांशाः (सूत्रा प्रागङ्गुलद्वयोः) ।। ३६ ॥ नलेन परपादस्य भूमिलेखा विधीयते । ततोऽङ्गुष्ठोऽङ्गुलेनाधः पाणिरूवं तदर्धतः ।। ३७ ॥ अङ्गुष्ठाग्रं ब्रह्मसूत्रात् परस्मिन् पश्चमात्रकाः । तलं च परभाग स्तियेक पञ्चाङ्गुलं स्मृतम् , (सत्वितस्तलघाटप्यः?) स्यादङ्गुष्ठाग्रं कलात्रये । अगुल्योऽङ्गुष्ठतः सवा (बजत्परयं?) क्रमात् ।। ३९ ।। (सन्निवेशसवासाद द्विरङ्गुल्यतो.) नवाङ्गुलः । यथोक्तं जानु पूर्व स्यात् सूत्रतश्चतुरङ्गुले ॥ ४० ॥ नलकस्तद्वदेवास्य नलको व्यङ्गुलान्तरौ । (सूत्रादक्षः कलास्तिस्राङ्गुष्ठस्त्वमुलत्रयम् ) ॥ ४१ ॥ भूमिसूत्राद् गतोऽधस्तात् पूर्वाङ्गुष्ठो भवेत् कला । अङ्गुष्ठोऽगुलयश्चेति सर्वमन्यद् यथोदितम् ॥ ४२ ।। (दृश्यपार्श्वतलप्रविपारंही!) मध्यमे तलम् । एवमुक्तप्रमाणेन ज्ञात्वा युक्त्या समादिशेत् ॥ ४३ ।। अर्धवागतमित्येतत् प्रवरं स्थानमीरितम् । लक्ष्म (सा वो साची)कृतस्याथ स्थानकस्याभिधीयते ।। ४४ ॥
"Aho Shrut Gyanam"