________________
अण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः । २३१ (भावाण्डकान्यथ ब्रूमः सोहस्याभिप्रस्तकेडकम्) । गोलार्धाभ्यधिकं कार्य (पूर्वेस्तोत्तद्विचक्षणैः१) ॥ ६ ॥ अर्धगोलकमायामादलसाण्डकमुच्यते । नवगोलकदैर्घ्य तदद्वहासमुखं(?) भवेत् ॥ ७ ॥ पंसां षडा(दात्तं यत) मानं विस्तारात् पश्चगोलकम् । वनिताण्डकमालेख्यं नालिकेरफलोपमम् ॥ ८ ॥ चतुर्गोलकविस्तीर्णमायतं पञ्चगोलकान् । शिशूनामण्डकं तावत् कर्तव्यं चित्रकर्मणि ॥ ९ ॥ (हास्योभिः प्रस्रवेत्!) तस्य गोलकार्धान् विशेषयेत् । आलस्याण्ड कमप्येवं रोदनं तद्वदेव तु ॥ १० ॥ षड्गोलक(प्र)विस्तारमायतं सप्तगोलकम् । राक्षसस्याण्डकं कुयोच्चन्द्रमण्डलसन्निभम् ॥ ११ ॥ (हास्योभिप्रस्तवे?) तस्य गोलकार्धान् विशेषयेत् । देवाण्डकं प्रमाणेन तदालस्येव कीर्तितः, ।। १२ ।। षड्गोलक(प्र)विस्तारं गोलकाष्टकमायतस् । (हत्तांया) समालेख्यं दिव्याण्डकमिति स्मृतम् ॥ १३ ॥ अथाभिधीयते दिव्यमानुषाण्ड (क)(वि)लक्षणम् । गोलकार्धाधिकं (भेरत)च्च कार्य मानुषमानतः ॥१४॥ पञ्चगोलकविस्तीर्ण षड्गोल(सेमायुतम्)। मुखाण्डं मानुषं कृत्वा(केत्तरस्यः) विधीयते ।। १५ ।। शिशुफाण्डकमानेन प्रमथानां मुखाण्डकम् । राक्षसाण्डकमानेन यातुधानाण्डकं भवेत् ।। १६ ॥ दानवस्याण्डकं कुर्याद देवानां वदनोपमम् । गन्धर्वनागयक्षाणां तद्वदेवाण्डकं भवेत् ।। १७ ॥ विद्याधराणां विज्ञेयं दिव्यमानुषमण्डकम् । बुध्यन्ते केऽपि शास्त्रार्थ केचित् कर्माणि कुर्वते ॥ १८॥ १. 'चायत' इति स्यात् । २. 'कसमायतम् ' इति स्यात् ।
"Aho Shrut.Gyanam"