________________
चित्रोद्देशो नामैकसप्ततितमोऽध्यायः ।
२५३ (वर्णगव्यक्तियाः) यादृग् यादृशो वर्तनाक्रमः । मानोन्मानविधिश्चैव नवस्था(नेन)विधिस्तथा ॥ ३॥ हस्तानां यश्च विन्यासो (लक्षणनात्रसंशय?) । दिव्यानां मानुषाणां च (दिव्या सा मुखजन्मना?) ॥ ४ ॥ गणरक्षःकिन्नराणां कुब्जवामन(यस्तेषाम्) । विकल्पाकृतिमानानि रूपसंस्थानमेव च ।। ५॥ वृक्षगुल्मलतावल्लीवीरुधां पापकर्मणाम् । शूराणां दुर्विधानां च धनिनां पृथिवी(क्षिःभृ)ताम् ॥ ६ ॥ ब्राह्मणानां (विसासोडजातन?) क्रूरकर्मणाम् । मानिनामथ रङ्गोपजीविनां चेह(ज?क)थ्यते ।। ७ ॥ रूपलक्षणनैपथ्यं सतीनां राजयोषिताम् । दासीप्रजितारण्डा(यतिवल्लीषु लक्षणा ।। ८ ॥ कन्यानामसंकारणां च विध्याना)गजवागिनाम् । मकरव्यालसिंहानां तथा यज्ञोपयोगिनाम् ॥ ९ ॥ (विना)रात्रिविभागस्य ऋतूनां चापि लक्षणम् । (अत्र योज्यं याप्यंभ्र कथं भवतिः) ॥ १० ॥ प्रविभागस्य देवानां रेखाणां चापि लक्षणम् । लक्षणं पञ्चभूतानां तेषामारम्भ एव च ॥ ११ ।। वृकादीनां विहङ्गानां सर्वेषां जलवासिनाम् । चित्रन्यासविधानस्य ब्रूमः सम्प्रति लक्षणम् ॥ १२ ॥ (कर्भण कर्या करमे) यस्माच्चित्रकर्मणि वर्तते । तस्याङ्गान्यभिधीयन्ते तेन सर्वाणि विस्तरात् ॥ १३ ॥ वर्तिका (प्र)थमं तेषां द्वितीयं भूमिबन्धनम् । लेख्यं तृतीयं स्यात् रेखाकर्माणि (वर्ततेमिह लक्षणम्)।
१. 'वर्णव्यक्तिक्रमो' इति पाठः स्यात् । २. 'दिव्यमानुषजन्मनाम् ' इति, ३. ' योषिताम्' इति, ४. 'विशां शूद्रजातीनाम् ' इति, ५. 'दिवा' गते च स्यात् ।
"Aho Shrut Gyanam"