________________
२३८
समराङ्गणसूत्रधारे चतुर्भागिकविस्तारं त्रिपदायामकन्दकम् । तदा स्थाच्छेखरा नाम भत्रितयभूषिता ॥ २०१॥ नित्यप्रमुदितानेकदेववृत्त्तदन्द)कृतास्पदा । भाग(ष्टयाष्टा)श्रीकृते क्षेत्रे चतुर्भागविभाजिते ॥ २०२ ।। द्विभागायामविस्तारे प्रासादे दशमे भ्रमे । अश्रिभिः समविस्तारा(दासष्टो++?) प्रकल्पयेत् ॥ २०३ ॥ सदा भागप्रविस्तारं रान ) तांश्च कुर्यात् पृथक् पृथक् । निर्गमेण चतुर्भा(गोगान् ) भागिकभ्रमणान्वितान् ।। २०४ ।। द्विभागायामविस्तारं मध्ये शालाद्वयं भवेत् । पयगर्भयमित्युक्ता प्रजापतिमनःप्रिया ।। २०५ ॥ भवे(तादा)र्यादिदेवीनां सदा चित्रीत)प्रसादिनी । विधाय(क्षेत्रमष्टास्तवदर्धायामविस्तृतौ?) । २०६ ।। मध्ये देवगृहं कार्य तदर्धेन भ्रमो बहिः।। भद्रं भवेद द्वादशभिस्तैश्चतुर्भिर्विनिर्गमः ।। २०७ ।। तस्य(स्यात्य?) भद्राणां निर्गमोऽपि चतुष्पदः । विस्तारः षट्पदस्तेषां चतुर्भिस्तं विभाजयेत् ॥ २०८ ॥ भागार्धेन (च) शाला स्याद भागत्रितय(स.)मा(यात्म्यता) । भ्रमश्च स्या+(त्तु)कर्तव्यो भागं तत्पार्धयोः (रुद्रायाः) ।। २०९ ॥ द्विभागायामविस्ता(रा? रे) शाले स्यातां पदभ्रमे । इयमंशुमती प्रोक्ता जगती शुभलक्षणा ।। २१० ॥ विधाय क्षेत्रमष्टाश्रि तदर्धायामविस्तृति । मध्ये देवगृहं कार्य तदर्धेन भ्रमो बहिः ।। २११ ॥ पासादसमविस्तारं भद्रं कृत्वा ततो भजेत् । चतुर्दशभिरस्य (स्यान्नितिर्यमो?) दशभिश्च तैः ॥ २१२ ॥ १. 'नष्टौ कन्दान्' इति स्यात् । २. क्षेत्रमष्टानि तदर्धायामविस्तृति' इति
स्यात । ३. 'स्यान्निर्गमो' इति स्यात् ।
"Aho Shrut Gyanam"