________________
जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः ।
ते द्वे + ( कुद्योः) कुर्वीत सुभद्रां त्रिदशप्रियाम् । ( चतसृषु भद्रेषु प्रत्येकं पञ्च कर्णिगा ॥ ८५ ॥ शालाः स्युर्यदिचन्द्राष्टाः) तदा स्यात् सिंहपञ्जरा | चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥ ८६ ॥ त्रिभागायामविस्तीर्ण मध्ये देवकुलं भवेत् । भागेनैकेन कर्तव्यो भ्रमो दिक्षु तिसृष्वथ ॥ ८७ ॥ प्रासादायामविस्तीर्णे तस्याग्रे मुखमण्डपः । भद्रस्य पार्श्वद्वितये बाह्यतो भद्रविस्तृत (म्) || ८८ ॥
शालायुग्मं विधातव्यं त्रिपदायामविस्तृति | भागिक (भद्रमा भ्रम) णोपेतं (यदिकाच्च पयास्वितः) ॥। ८९ ।। द्विभागायामविस्तारे भागिक भ्रमणान्विते ।
शाले द्वे पुरतः कार्ये साम्मुख्याच्च परस्परम् ॥ ९० ॥
(पञ्चस्वलं ?) भवेदेवं पृष्ठभद्रं यदा शुभम् । याम्योत्तरे चतुःशाले (भद्रद्वयपञ्चकञ्जराः) ॥ ९१ ॥ पृष्ठभदं यदैतस्या + + + न्मध्यशालया । (कक्षाभद्रे तया स्यायुते?) गन्धर्वनगरी तदा ॥ ९२ ॥ पञ्च त्रीण्येव भद्राणि पञ्चशालान्वितानि च । (शिशुतत् ) पत्रिंशत्तमा ज्ञेया सा जगत्यमरावती ॥ ९३ ॥ शुण्डिकाग्रे यदैतस्याः शाला सम्पद्यते कचित् । तदा स्याद् दन्तचूडेति जगती जगतः प्रिया ॥ ९४ ॥ (इनि) शुण्डिकाशाला गण्डशालाद्वयान्विता । त्रिदशेन्द्रसभा ज्ञेया ससुण्डी देवयन्त्रिका ॥ ९५ ॥ (इति चतुरस्राणां कीर्त्यतेषायताः कासानकामाः) । सप्तभागायते क्षेत्रे भागपञ्चकविस्तृते ।। ९६ ।। द्विभागायतविस्तारे स्तः शाले वामदक्षिणे । चतुष्किकैकभागेन तयोरेवाग्रतो भवेत् ।। ९७ ।।
१. ' रत्नधूमा' इति पूर्व पठितम् ।
२२९
"Aho Shrut Gyanam"