________________
समराङ्गणसूत्रधारे हस्तितुण्डैर्वरालैश्च शालभञ्जीभिरण्डकैः । भल्लिकातोरणैश्चैव भूषणीया चतुष्किका ।। ९५ ॥ खेचरैर्मा(लील्य)वन्धैश्च नानाकर्मवितानिभिः । मन्दारकैः शुक्तिभिर्वा पर्वा नागपाशकैः ॥ ९६ ॥ मण्डपं छादयेत् प्राज्ञो बाह्यतस्त्वभिधीयते । द्विगुणा(?) मौलिकद्वारात् पादोनद्विगुणं कचित् ।। ९७ ॥ सार्धभागमितं यद्वा त्र्यंशोनं द्विगुणं कचित् । कापि व्यंशाधिकं कार्य चतुारं + मण्डपे ।। ९८ ।। द्वारे कार्यों प्रतीहारौ भल्लिका तोरणास्तथा । स्तम्भयोश्च वरालौ द्वौ शालभजिकया सह ॥ ९९ ॥ प्राग्नीवं भद्रभदं च रथिका वेदिका बहिः । मण्डपे वरकस्योर्ध्वमधस्ताच्छिखरस्य च ॥ १००॥ भागाध छेदपट्टः स्याच्छेषं कुर्वीत संवृति(१) । (शिखरा व्यंशयुग्मेन पादोन वा कारयेत् (१) ॥ १०१॥ प्रासादे शुकनासं तु (सन्तु सम्भ्रमेऽथवाः) । मण्डपस्योदयः स्वस्मादधस्तादथवा भवेत् ॥ १०२ ।। वामनाद्या अनन्तान्ताः प्राक प्रोक्ता ये दशो(पये दयाः) । कर्तव्यो मध्यतस्तेषामुदयः कोपि मण्डपे ।। १०३ ॥ प्रविभज्योदयं त्रेधा घण्टां. भागेन कारयेत् । तत् त्रिभागेन तिलकस्तिलकार्थेन(फंसना) ॥ १०४ ॥ क्रमैस्विभिः पञ्चभिर्वा शूनिर्माणमिष्यते । स्कन्धछाद्यवासने वामेषा सवणोदिता(?) ॥ १०५ ।। शोभा भद्रेषु कर्णेषु यथायोग प्रकल्पयेत् । वीथीभिश्चन्द्रशालाभिः सिंहकर्णैश्च शोभनैः ॥ १०६ ॥ रथिकाभिर्वरालैश्च तिलकैश्चारुदर्शनैः । शकनासर्गजैः सिंहैरन्यैरित्येवमादिभिः ॥ १०७ ॥
"Aho Shrut Gyanam