________________
समराङ्गणसूत्रधारे भागार्धनाथवा पातस्तयोर्मध्ये च मध्यमः। कूटागारेण्विदं मानमिदं चासनपट्टके ।। ६९ ॥ भागद्वितयविस्तारमासनं परिकल्पयेत् । पिण्डो भागद्विकं तस्य व्यंशोना मत्तवारणा(?) ॥ ७० ॥ वेद्यां पिण्डः सपट्टः म्यात क्रूटागारे तथैव च । राजसेनस्य पिण्डस्तु कूटागारसमो भवेत् ॥ ७१ ॥ कुम्भिकापि च तत्पिण्डा चोदरूव॑तयासनम्(!) । विद्यात् + सशिरःस्तम्भः कूटकं + + + + + || ७२ ॥ राजसेनसमा कुम्भी जङ्घा वेदिसमा भवेत् । एवमेतत् त्रिधा प्रोक्तं (सूप)च्छाद्यमथोच्यते ।। ७३ ॥ अधःपोर्ध्वपट्टान्तं पञ्चधा प्रविभाजयेत् । उभाभ्यां वा त्रिभिर्वापि भजे निगतिस्तु सायते?) ॥ ७४ ॥ ++ पट्टसमोऽथ (द्वा?) त्रयोदशविभाजिते । शूर्पभागं त्यजेदृर्ध्वं (भघटना द्वादशांशिका ।। ७५ ॥ कुर्यान्निपातं शूर्पस्य पञ्चभागमथापि वा । दण्डकैर्भूषयेच्छूष मध्ये दण्डं विवर्जयेत् ॥ ७६ ॥ मध्ये च स्तम्भिका वेद्या मत्तवारणकस्य च । भागेन पट्टपिण्डस्तु सपादेनाथवा भवेत् ॥ ७७ ॥ पृथुत्वं स्यात् स षड्भागपिण्डतुल्यं तु पट्टके । स्तम्भः पट्टसमः कार्यः शीर्षकं त्रिगुणं ततः ॥ ७८ ।। स्तम्भादप्यधिका कूटी हीरकादपि पट्टकः । बाहापट्टवदुच्छ्रायः शुकनासस्य पट्टके ।। ७९ ।। पट्टपिण्डोच्छ्रिता वेदी यद्वा पट्टाधिका भक्त । मण्डपे स्यात् तुलोच्चायो विभागैः प्रमितोऽष्टभिः ।। ८० ॥ स्थलमासादतुल्यो वा पातस्य च सतोऽपि वा । निम्नोन्नतं छादयेच छेदिकायोगतो बुधः ॥ ८१ ॥
"Aho Shrut Gyanam"