________________
सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः । देवालयोत्सवार्थाय विमानानि पृथक पृथक् । मण्डपादि समाख्यातादृवं(?) स्युः सप्तविंशतेः ॥ ५६ ॥ देवयात्रानिमित्तानि तथैव परिकल्पयेत् । चतुःषष्टेरप्यधिकाः स्तम्भाः स्युः पदसंख्यया ॥ ५७ ॥ प्रासादााङ्गानि ++ स्युस्तत्क्षणान्मण्डपेन च । संवास्तुपदं संबुद्धया(?)कर्तव्यो विषमैः क्षणैः ॥ ५८ ।। न दोषो जायते तत्र (शिल्पीच्छतेऽत्र?) कारणम् । अथ दारुकलां ब्रूमः+मण्डपसंश्रयाम् ।। ५९ ॥ (या)हक् समतलं तत्र विभागस्तागुच्यते । प्रासादस्य विभागेन राजसेनं तु भागिकम् ॥ ६० ॥ वेदी भागद्वयं ज्ञेया द्वौ भागौ मत्तवारणम् । चन्द्रावलोकनं तद्वद् विधातव्यं द्विभागिकाम् ।। ६१ ।। पट्टो भवति भागार्धमर्धभागिकमासनम् । कूटस्तम्भं तु भागेन सपादेन प्रकल्पयेत् ॥ ६२ ॥ शीर्षक(कभारणं चैव सपादं भागमिष्यते । एतत् समतले कार्य विषमोऽपि कचिद् भवेत् ॥ ६३ ॥ पट्टि(१)आंगिकी विधातव्या प्रकारेणापरेण च । अधस्तावपट्टस्य तलपट्टस्य चोध्वेतः ॥ ६४ ।। पदे त्रिभागमध्ये वा कार्या चन्द्रावलोकने । तदधस्ताद विधातव्यो विभागः पञ्चभिः पदैः ।। ६५ ॥ भागिकं राजसेनं स्याद् वेदिकापि द्विभागिकी। मत्तवारणकं काये भागद्वितयसंमितम् ॥ ६६ ॥ दशभक्तेऽथवा कार्या चतुर्भिश्चन्द्रलोकना । भागद्वयेन वेदी च तत्समं मत्तवारणम् ॥ ६७ ॥ भागेन रूमहारस्तु भागेनैकेन कण्ठिका । मचवारणपातश्च व्यंशहीनकभागिकः ॥ ६८ ॥
"Aho Shrut.Gyanam"