________________
सतविंशतिमण्डपलक्ष णं नाम सप्तषष्टितमोऽध्यायः। २०९ सपादद्विगुणाः सार्धद्विगुणाः सान्तरोद्भवाः । क्षुद्रप्रासादकेषु स्युर्मण्डपा बहवोऽपरे ॥ ४ ॥ क्षेत्रालाभे पुनरिमान् सर्वान् सर्वेषु योजयेत् । दैादैर्येण गृहणीयाद् विस्तृती+++तथा ॥ ५॥ प्रमाणं मण्डपे(कार्येः) वलभ्यां गरुडेऽपिच । चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥ ६ ।। भागैश्चतुर्भिर्भद्रं स्याद् द्वौ भागौ प्रतिभद्रकम् । अग्रतः पृष्ठतो वापि निगमो भागिको भवेत् ।। ७ ॥ भद्राणां निर्गमो भाग सार्धभागमथापि वा। प्रासादस्य त्रिभागेन चतुभांगेन वा भवेत् ॥ ८॥ अर्धनाथ षडंशेन पञ्चांशेनाथ निर्गतिः । प्रासादानां समा कार्या पादोना वा प्रमाणतः ॥ ९ ॥ कार्या त्रिभागहीना वा मण्डपास्तु समैः क्षणैः । स्वविस्तारसमं भद्रे मुखे चैषा प्रकीर्तिता ॥ १० ॥ कर्णा द्विभागिका ज्ञेयास्तेषां कोणचतुष्टये । वामदक्षिणभागाभ्भां सह भद्रं षडंशकम् ॥ ११ ॥ प्रतिभद्रे नचैतस्मिन् विदध्यादग्रपृष्ठयोः । चतुःषष्टिधरोऽयं स्यात् पुष्पको नाम मण्डपः ॥ १२ ॥
पुष्पकः ॥ दिकत्रये प्रतिभद्राणि मुखे प्राग्नीव एव हि । पुष्पभद्रो (तिस्तम्भश्चतुष्कः सुप्रभो?) भवेत् ॥ १३॥ इति स्तम्भद्यत्यगाद् ब्रूमो मण्डपविंशतिम् । (यो पुष्पभद्रस्तु व्रतोऽमृतनन्दनः) ।। १४ ॥ कौसल्यो (युद्विा)संकीर्णो गजभद्रो जयावहः । श्रीवत्सो विजयश्चैव वस्तुकीर्णश्रुतिर्जयः ॥ १५ ॥ यज्ञभद्रो विशालश्च सुश्लिष्टः शत्रमर्दनः । (भायंवोः) दपश्चैवं मानवो मानभद्रकः ॥ १६ ॥
"Aho Shrut Gyanam"