SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः || २५ || शाला स्यात् पञ्चभिर्भागैः सार्धंशस्तु प्रतीरथः । सशालाकर्णयोर्मध्ये कर्तव्यः सोदकान्तरः ॥ २६ ॥ प्रतीरथस्य +++ श्रार्थभागं विनिर्गमः । भवेत् (पथविकान्यः स विभागोऽन्य +१) पूर्ववत् || २७ ॥ ते च (१) द्वादशभागा ये दशभिस्तान् विभाजयेत् । गर्भभित्तिं तथोत्सेधं जङ्घायाः प्रथमक्षितेः ॥ २८ ॥ वेदीबन्धस्य चोत्सेधं पूर्वमानेन कारयेत् । मध्यं पल्लविकान्तं तु शालयेोर्दशभिर्भजेत् ॥ २९ ॥ क्षितेरारभ्य पूर्वस्याः स्कन्धं यावत् समुच्छ्रि(तातिः) । कार्या द्वादशभिर्भागैरनन्तरनिरूपितैः ॥ ३० ॥ सार्धयैकोनविंशत्या भाजयेद् भूय एव ताम् । द्वितीयभूमिकोत्सेधस्तैर्भवत्यथ भागिका (१) ॥ ३१ ॥ तिस्रोऽन्याः पदपादेन हीनाः कार्या यथाक्रमम् ! भागेन वेदिकोत्सेधः शाला कार्या च नागरः (१) ॥ ३२ ॥ ऊर्ध्वमा(?) क्षितेः कार्या मालायाः शूरसेनकाः । कोणप्रतिरथा ये तु पञ्चभागसमुच्छ्रिताः ॥ ३३ ॥ स्तम्भच्छालकमध्येन तेषु कूटोच्छू ( ता ति ) स्तथा । अर्धेन प्रविधातव्या भूवन्यास्वप्ययं विधिः || ३४ ॥ स्कन्धविस्ताररेखा भूप्रवे (श? शो) घण्टया सह । कलशः शुकनासस्य चोच्छ्रितः पूर्वव भवेत् ॥ ३५ ॥ मलयाद्रिरयं प्रोक्तः प्रासादः शुभलक्षणः | य एनं कारयेत् तस्य तुष्यन्ति सकलाः सुराः ॥ ३६ ॥ वर्षकोटिसहस्राणि स्वर्गलोके महीयते । मलयाद्विप्रासादः || अथ माल्यवतो लक्ष्म यथावदभिधीयते ॥ ३७ ॥ " Aho Shrut Gyanam" १८९
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy