________________
१४२
समराङ्गणसूत्रधारे
गर्भश्चतुर्भिर्भागैः : स्याद् भद्रं तद्विस्तृतेः समम् । भद्रस्यार्थेन तिलकाः कर्णाः कार्या द्विभागिकाः ॥ ४८ ॥ द्वे द्वे पदे विधातव्यस्तथैकैकस्य निर्गमः । भद्राणां निर्गमं यद्वा विध्यादेकभागिकम् ॥ ४९ ॥ भागका गर्भभित्तिस्तु द्विपदा च प्रदक्षिणा | भागिकी बाह्यभित्तिः स्याज्जङ्घोच्छ्रायः पदानि षट् ॥ ५० ॥ भागिका मेखला प्रोक्ता (शृङ्गः ) तन्मध्ये शिखरं भवेत् । मल्लच्छाद्यं च मध्ये स्याच्छृङ्गस्य शिखरस्य च ॥ ५१ ॥
एकभागोच्छ्रितं तच्च मञ्जर्यास्त्विह विस्तृतिः । गर्भभित्तिसमा कार्या सप्तभागा समुच्छ्रितिः ॥ ५२ ॥ ऊर्ध्वं द्वितीयशृङ्गस्य पूर्ववन्मूलमञ्जरी । अण्डकाद्यं यथोक्तं स्यात् सौभाग्योऽयं प्रकीर्तितः ॥ ५३ ॥ सौभाग्यः ॥
विधीयते यदास्यैव विना भद्रमलिन्दकः । तदा विभङ्गको नाम प्रासादः स्यात् सुशोभनः ॥ ५४ ॥ विभङ्गकः ॥
यदि भद्रस्य निष्कासः क्रियतेऽस्य तदा पुनः । प्रासादो विभवो नाम जायते परमोत्तमः ॥ ५५ ॥
भागद्वयविनिष्क्रान्ता नन्दिका क्रियते यदि । तदा वदन्ति वीभत्ससंज्ञं प्रासादमुत्तमम् ॥ ५६ ॥
विभवः ॥
यदा वन्दिकोsस्यैव क्रियते न विनिर्गतः । प्रासादो मानतुङ्गाख्यस्तदानीमुपजायते ॥ ५८ ॥
बीभत्सः ॥
यदा निर्गमविस्तारसमा भवति नन्दिका । श्रीतुङ्ग इति विज्ञेयस्तदा प्रासादसत्तमः ।। ५७ ।।
श्रीतुङ्गः ॥
मानतुङ्गः ॥
१. इत उत्तरं 'सौभाग्यादिषट्कम् ' इति पदमादर्श समिति पूर्वोत्तरप्रक्रमाद् विज्ञायते ।