________________
१२२
समराङ्गणसूत्रधारे जामन्तरपत्रेण (कुं + युक्तं कुर्वस्तसा?) । (जी?ही)रकं वेदिवन्वं च भागत्रयसमुच्छ्रितम् ।। ७० ॥ अलि(म्बान्दा)नां समुत्सेधं (शे?शि)खरार्धन कारयेत् । षड्भागं स्कन्धविस्तारं विदधीत विचक्षणः ।। ७१ ॥ ग्रीवार्धभाग(मुत्से)धाद् भागमामलसारकम् । कुमुदं चाधेभागेन कुम्भः स्यादेकभागिकः ।। ७२ ।।
गरुडः ॥
अथोच्यते वर्धमानो दशधा तं विभाजयेत् । पादोनांशद्वयं कुर्यात् पार्श्वयोः कर्णविस्तृतिम् ।। ७३ ।। सपादपदविस्तारौ रथको वामदक्षिणी ! चतुर्भागोन्मितं भद्रं विस्तारेण प्रकीर्तितम् ।। ७४ ।। विस्ता(रो?राद) द्विगुणोच्छायं स्कन्धं यावत् प्रकल्पयेत् । खुरकस्याथ जङ्घाया मञ्जरीस्कन्धयोरपि ।। ७५ ।। ग्रीवामलसारकादेः प्रमाणं गरुडे यथा ।
वर्धमानः ॥ द्वाविंशतिकरायामः शङ्खावताऽथ कथ्यते ।। ७६ ।। मूलसीमात्तनाहस्तस्य स्यात् पद्मके यथा । भित्तिगर्भस्य विस्तारः (पादेनार्धनवकमात् ?) ।। ७७॥ अलिन्दमग्रतः कुर्यात् सिंहकर्णविभूषितम् । उत्सेधत्र्यंशतो जङ्घा (वेद्यं? ) तत्र विभागतः ॥ ७८ ।। आस्कन्धं वेदिकाबन्धाद् विस्तृतेर्द्विगुणोच्छ्रितिः । मेखलान्तरपत्रं च जङ्घामध्ये विधीयते ।। ७९ ।। भ्रमयेत् कर्णसूत्रेण बहिर्वृत्तं समन्ततः । कणेदिक्पालयोमध्यं वृत्तमूत्रेण वर्त(यन् ?येत्) ।। ८० ॥ अवशिष्टं त(ल)च्छन्दं स्वस्तिकस्येव कारयेत् । ग्रीवा(म मलसारं च कलशं वारिनिर्गमम् ।। ८१ ।। १, ‘पादेनाधेन च क्रमात् ' इति स्यात् ।
"Aho Shrut Gyanam"