SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २८० समराङ्गणसूत्रधारे तलोदयस्य तन्मानं गर्भमण्डपयोः समम् । यदि भिनलं कर्तुं मण्डप : कवि हीयते ( ९ ) ॥ ९ ॥ द्वारोच्छ्रिते तद्गुणानां मण्डपे स्यात् तलोच्छ्रितिः । प्रासादेषु कनीयस्सु तलमानमुदाहृतम् ॥ १० ॥ षड्भागाभ्यधिकं ज्येष्ठे मध्येऽष्टांशाधिकं ततः । विधि: ( 3 ) समपदः प्रासादस्य विधीयते ॥ ११ ॥ नाधस्तात् स प्रयोक्तव्यो नोर्ध्वतश्राप्युदुम्बरात् । कुम्भिका भरणपट्टजयन्तीशीर्षकायफलकेषु तुला (नाम्) । उक्त(मान)मिह यत् प्रथमं तन्नाधिकं प्रविदधीत न हीनम् ॥१२२॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः ॥ अथ प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । इदानीमभिधास्यामः प्रासादानां यथाक्रमम् । द्रव्येषूदयविस्तारं बाहल्यं परिधिं तथा ॥ १ ॥ प्रासाद भागिकोत्सेधं प्रासादद्वारमिष्यते । स(त्र्यं त्रियं) शोच्छ्रितं वापि साधशोच्छ्रयमेव वा ॥ २ ॥ स्वीयस्वीयोदयादर्धविस्तारं च तदिष्यते । विस्तृतिर्भागतुर्यांशात् पेद्यायाः स्थौल्यमर्धतः ॥ ३ ॥ पेद्याबाहल्यविस्तीर्णा शाखा भवति मानतः । उत्तराङ्गानि कुर्वीत पेद्याशाखासमानि तु ॥ ४ ॥ सपादपेद्याविस्तारा रूपशाखा विधीयते । रूपशाखान्वितः कार्यः पीठबन्धस्तथोपरि ॥ ५ ॥ वृत्तं कार्यमधोवृत्ते पत्रकै निरन्तरम् । स्तम्भाचं द्विगुणव्यासं भरणं भूषणान्वितम् ॥ ६ ॥ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy