SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २७५ आयतननिवेशो नामैकपञ्चाशोऽध्यायः । अथायतननिवेशो नामैकपञ्चाशोऽध्यायः । एवं नृपस्य प्रासादे कृते क्लुप्तेऽथवा भुवि । तस्यानुजीविनः कुर्युः प्रासादान् परिधौ यदि ॥१॥ तदा दिग्भागविन्यासस्थानमानान्यनुक्रमात् । तेषामिहाभिधीयन्ते सर्वेषां वृद्धिहेतवे ॥२॥ दशाष्टौ पद च धनुषां शतानि क्ष्माभृतां क्रमात् । मानमायतनस्योक्तं त्रेधा श्रेष्ठादिभेदतः ॥३॥ क्षेत्रमायतनस्यैवं चतुरश्रं समन्ततः। तत्र भक्ताः प्रकुर्वी स्त्रिधा स्वे स्वामिवत्सलाः ॥४॥ ये चास्य सम्मताः केचित् कुले जाता हितैषिणः । द्वादशांशेन हीनानि क्रमात् तान्यनुजन्मनाम् ॥ ५ ॥ तस्यैव वामतः कुर्यादुत्सेधाद् द्विगुणान्तरे । कुर्याद दशांशहीनानि नेऋत्यां दिशि भूपतेः ॥ ६ ॥ प्रासादान्नृपपत्नीनां सर्वासामपि शास्त्रवित् । अष्टभागेन हीनानि प्रतीच्यां दिशि कारयेत् ॥ ७॥ देवधिष्ण्यानि तन्त्रैः स्यात् स्वसुराणां विधानतः(?) । सौम्याया मारुती यावनवांशापचिताः क्रमात् ।। ८ ॥ प्रासादा मन्त्रिसेनानीप्रतीहारपुरोधसाम् । एतेषां पूर्वभागस्थं राजमातुर्निवेशनम् ॥ ९॥ हीनमेकादशांशेन तत् कार्य राजकारिता(?)। ऐशीमाश्रित्य देवानां तुल्यमैन्द्रपदावधि ॥ १० ॥ स्वसृणां मातुलानां च कुमाराणां तथा क्रमात् । आग्नेय्यां द्विजमुख्यानां विधातव्यं निवेशनम् ।। ११॥ कार्यः पुरोधःप्रासादः तुल्यतत्पुनरेव वा(?)। याम्यायां कुयुरष्टांशहीनान्युर्वीशमन्दिरात् ।। १२ ।। सामन्तकुञ्जरारोहभटपौरजनाः क्रमाद ।। एतान्यायतनान्येषां यथाभागं प्रकल्पयेत् ॥ १३ ॥ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy