________________
१४
तं तथा । वाचनान्तरे 'विजयवेजइयं 'ति दृश्यते, तत्र चातिशयेन विजयो विजयविनयः स प्रयोजनं यत्र तद् विजयवैजयिकं वर्द्धापनकं कारणेह ति ॥ सूत्रम् ९९ - 'ठिईवडियं' स्थितो- कुलस्य लोकस्य वा मर्यादायां पतिता भगता या पुत्रजन्ममहक्रिया सा स्थितिपतिता अतस्ताम् ॥ सूत्रम् १०० ---- 'दसाहियाए' 'दशाहिकायां' दशदिवस प्रमाणायां 'जाये य' यागान् पूजाविशेषान् 'दाये य' दायांश्च दानानि 'भाये य' भागांश्व विवक्षितद्रव्यांशान् ॥ सूत्रम् १०१ - 'चंदसूरदंस' चन्द्रसूर्यदर्शनाभिधानमुत्सवम् । ‘जागरिये' रात्रि जागरण रूपमुत्सवविशेषं षष्ठी जागरणमित्यर्थः । 'निव्वते असुर' 'निर्वृते' अतिकान्ते अशुचीनां जातकर्मणां करणमशुचिजातकर्मकरणं तत्र । 'संपत्ते बारसाहे' सम्प्राप्ते द्वादशाख्यदिवसे, अथवा द्वादशानामहां समाहारो द्वादशाहम् तस्य दिवसो द्वादशाहदिवसः, येन स पूर्वते तत्र कापि वर्द्धापन विधिश्यतेऽयम् । 'तस्सेव नियगसयणेत्यादि 'नायाणं'ति नाथा नाम - जे उसभसामिस्स सइणिज्जगा ते ज्ञाताः, शेषं सुगमम् । असणं ४ 'भासाएमाणा' ईषदास्वादयन्तो बहु च त्यजन्त इति इक्षुखण्डा देरिव । 'विस्साएमाणा' विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खर्जूरादेवि । स्वाद्यविशेषं 'परिमाए' ददतः । 'परिभुंजे' सर्वमुपभुञ्जानाः अल्पमप्यपरित्यजन्तो भोज्यम् ॥ सूत्रम् १०२'जिमियमुत्तुतराए' जेमिताः मुक्तवन्तः मुकोत्तरकालम् । किम्भूताः सन्तः : 'आयन्ता' आचान्ताः शुद्धोदकयोगेन 'चोरखा' चोक्षाः छेपसिक्थायपनयनेन, अत एव परमशुचिभूता नाम कुर्वन्ति ॥ सूत्रम् ११० -- दीक्षा ग्रहणसमये लो [कान्ति] का 'ताहि इद्वाहि' ताभिर्विवक्षिताभिः 'वग्गूर्हि'ति वाग्भिः, यकाभिवानन्द उत्पद्यत इति भावः । 'इष्टाभिः ' इष्यन्ते स्म यास्ताभिः । 'कान्ताभिः ' कमनीयाभिः । 'प्रियाभिः ' प्रेमोपादिकाभिः । विरूपा अपि कारणवशात् प्रिया भवन्त्यत उच्यते- 'मनोज्ञाभिः ' शुभस्यरूपाभिः । मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह- 'मणामाहि' मनोऽमन्ति गच्छन्ति यास्तास्तथा ताभिः । उदारेण - उदात्तेन स्वरेण प्रयुक्तत्वाद अर्थेन वा युक्तत्वादुदाराभिः । कल्यै - आरोग्य अणन्तिशब्दयन्तीति कल्याणास्ताभिः । शिवस्य-उपद्रवाभावस्य सूचकत्वात् शिवाभिः । धनं लभन्ते धनेन वा साळ्यो धन्यास्ताभिः । मङ्गले-दुरितक्षये साध्यो मङ्गल्यास्ताभिः । सह श्रिया - वचनार्थशोभया यास्ताः सश्रीकास्ताभिः वाग्भिरिति अभिनंदमाणा य० ॥ सूत्रम् १११ --- 'अप्पडिवाई नाणंसणे' अप्रतिपाति वर्द्धमानकमवधिज्ञानमवधिदर्शनं च ताभ्यामवलोकयति आत्मनो निष्क्रमणकालमिति । अथवा ‘अहोहिए’प्ति “अन्मंतरोधी” इति चूर्णिः । 'चेचा हिरवं' त्यक्त्वा 'हिरण्यं' रूप्यम् अघटितसुवर्णमित्येके । त्यक्त्वा सर्वपदेषु योग्यम् । 'स्वर्ण' घटिताघटितम् 'राज्यं' स्वाम्यमात्यराष्ट्र कोशदुर्गदुबलाङ्गकलितम्, 'धनं' गणिमधरिममेयपारिच्छेवरूपम्, 'राष्ट्र देशा' एकार्थे, 'बल' हस्त्यश्वरथ-पदातिरूपम् । वाहनानि यथा - यानानि शकटानि, जुम-गोल्लविषय प्रसिद्धं जम्पानम्, शिविकाकूटाकाराच्छादितजम्पानरूपा, स्वन्दमानिका पुरुषप्रमाणजम्पानविशेषः, गिल्ली - हस्तिन उपरि कोन्याकारा,
१ अत्र प्रत्यन्तरेषु रूपन्दमानिका इत्यपि पाठी इस्थते, किन स्यन्दमन्दानुकारितया 'पदमा निका' पाठः सुतरां सुततर भाभाति ॥
"Aho Shrut Gyanam"