________________
॥ अहंम ॥
आचार्य श्री पृथ्वीचन्द्रसूरिप्रणीतं
कल्पसूत्रटिप्पनकम् ।
प्रणम्य वीरमाश्रयसेवर्षि विधिदर्शकम् ।.. श्री पर्युषणाकल्पस्य, व्याख्या काचिदू विधीयते ॥ १॥ पञ्चमानस्य सट्टतेरस्य . चोद्धृत्य चूर्णितः । किश्चित् कस्मादपि स्थानाद, परिज्ञानार्थमात्मनः ||२|
सूत्रम् १ –'ते णं काले णं' ति 'ते' इति प्राकृत शैलीवशात् तस्मिन् यस्मिन् भगवानश्रवतीर्ण इह भरते । कारो वाक्यालङ्कारार्थः सर्वत्र द्रष्टव्यः ।' काले' अधिकृतावसर्पिणीचतुर्थारके । 'ते णं' ति तस्मिन् यत्रासौ भगवान् देवानन्दाया ब्राह्मण्या दशमदेवलोकप्राणतपुष्पोत्तर विमानात् च्युतः ॥ सूत्रम् २---- सनिलवत नेमी हरिवंशसमुद्भव, शेषा एकविंशतिः काश्यपगोत्राः । 'अड्ढरत्तकालसम्यति न्ति समयः समाचारोऽपि भवतीति कालो वर्णादिरपि स्यात् तद्यवच्छेदार्थ समयग्रहणम्, कान विशेषितः कालरूपः समयः स चार्द्धरारूपोऽपि भवति अतोऽर्द्धरात्रशब्देन विशेषितव, अर्धरात्ररूपः कालसमयोऽर्द्धगण कालसमयः । स च पूर्वरात्रकालोऽपि भवत्यत एवापररात्रे, तत्र स्वप्नस्य सद्यः फलत्वात् । हस्त उत्तरो यासां ताः, बहुवचनं बहुकल्याणकापेक्षम् | योगः-- चन्द्रेण सह सम्बन्धः । आहारव्युत्क्रान्त्या भवन्युत्कान्या शरीरख्युत्कान्त्या परित्यागेनेति एतानि देवभवसम्बन्धीनि प्ररित्यजति । कुक्षौ गर्भत्वेनोत्पद्यमातः सन् व्युत्क्रामति' प्रविशतीत्यर्थः ॥ सूत्रम् ३ – 'चह्नस्सामि'त्ति यतस्तीर्थंकरसुराः पर्यम्तसमये अधिकतरं कान्तिमन्तो भवन्ति विशिष्टतीर्थकर वळा भात् शेषाणां तु षण्नासावशेषे काले कान्यादिहानिर्भवति
1
“माल्यग्लानिः कल्पवृक्षमकम्पः, श्रीहीनाशो वाससां चोपरागः ।
दैन्यं तन्द्रा कमरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारतिय || १||" इति । 'चयमाणे न जाणई' त्ति एकसामयिकत्वात् ध्यवनस्य, “एगसामइमो नत्थि उपभोगो" ति, १ का विलिख्यते ० जे० ॥
"Aho Shrut Gyanam"