________________
११३२
प्रताणनयतत्वालोकालङ्कारः
[ परि. ८ सु. १५
वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥ १५ ॥
१०
स्पष्टम् ॥ १५ ॥
अथैतेषां लक्षणं कर्म च कीर्तयन्ति-
प्रारम्भकप्रत्यारम्भकावेव मलप्रतिमलन्यायेन वादिप्रतिवादिनौ ॥ १६ ॥
यौ तौ प्रारम्भकप्रत्यारम्भको पूर्वमुक्तौ तावेव परस्परं वादिप्रतिवादिनौ व्यपदिश्येते यथा द्वौ नियुध्यमानौ मल्लप्रतिमल्लाविति ॥ १६ ॥
प्रमाणतः स्वपक्षस्थापनप्रतिपक्ष प्रतिक्षेपावनयोः कर्म ॥ १७ ॥
वादिना प्रतिवादिना च स्वपक्षस्थापनं परपक्षप्रतिक्षेपश्च द्वितयमपि कर्तव्यम्, एकतरस्यापि विरहे तत्त्वनिर्णयानुत्पत्तेः । अत एव स्वपक्षेत्यादिद्वियचनेनोपक्रम्यापि कर्मेत्येकवचनम्, यथेन्धनधमानाधिश्रयणादीनामन्यतमस्याप्यपाये विक्कितेरनिप्पत्तेः सर्वेषामपि पाक - १५ इत्येकतया व्यपदेश इति । स्वपक्षस्थापनपरपक्षप्रतिक्षेपयोः समासेन निर्देशः कचिदेकप्रयलनिप्पन्नताप्रत्यायनार्थम् । यदा हि निवृत्तायां प्रथमकक्षायां प्राप्तावसरायां च द्वितीयकक्षायां प्रतिवादी न किञ्चिद् वदति तदानीं प्रथम कक्षायां स्वदर्शनानुसारेण सत्प्रमाणोपक्रमत्वे स्वपक्षस्थापनमेव परपक्षप्रतिक्षेपः, यदा वा विरुद्ध- २० त्वादिकमुद्भावयेत् तदा परपक्षप्रतिक्षप एव स्वपक्षसिद्धि:, इति समासेऽपि तुल्यकक्षता प्रदर्शनार्थमितरेतरयोगद्वन्द्वः । यथा स्वाक्षः स्थाप्यते तथा परपक्षः प्रतिक्षेप्यः, यथा चायं प्रतिक्षिप्यते तथा स्वपक्षः स्थाप्यः, न तु सर्वत्र पारिशेष्यात् परितोषिणा भवितव्यम् ।
1
·
" मानेन पक्षप्रतिपक्षयोः क्रमात् प्रसाधनक्षेपण केलिकर्मठौ ।
२५ वादेऽत्र मल्लप्रतिमल्लनीतितो वदन्ति वादिप्रतिवादिनौ बुधाः ॥ १॥१७॥