________________
९८३
परि. ५ स. ८ ]
स्याद्वादरत्नाकरसहितः चेदसन्प्राप्तमसत उत्पाद इति । अथ सन्, कृतं तर्हि कारणैः। न हि सति कार्य कारणानां प्रयोजनं पश्यामः । आविर्भाव वाविर्भावान्तरकल्पनेऽनवस्थाप्रसंगः । तस्मादाविर्भूतपटभावास्तन्तव इति रिक्तं वचः । अत्रोच्यते । असदुत्पद्यते इत्यत्रापि मते केयमसतामुत्पत्तिः सत्यसती वा । सती चेत्कृतं कारणैः । असती ५ चेत्तस्या अप्युत्पत्त्यन्तरमित्यनवस्था । अथोत्पत्तिः पटानार्थान्तरमपि तु पट एवासौ तथापि यावदुक्तं भवति पट इति तावदुक्तं भवत्युत्पद्यत इति । ततश्च पट इत्युक्ते उत्पद्यत इति । न च वाच्यं पौनरुक्त्याद्विनश्यतीत्यपि न वाच्यं विरोधात् । तस्मानामीभिर्गजविकल्पैस्तत्वमुपप्लावनीयम् । तथा च सत एव ५० पटादेराविर्भावाय कारणापेक्षेत्युपपन्नम् । न च पटरूपेग कारणानां संबन्धस्तद्रूपस्याक्रियात्वात्, क्रियासंबन्धित्वाच कारकाणामन्यथा कारकत्वाभावात् ।' तदित्थं कार्यस्य कारणादभेदे प्रतिषिद्धे सन्नेवासौ महदादिप्रपञ्चः प्रकृतेः सकाशादाविर्भवतीति सिद्धम् । नन्वेवमभेदे व्यक्ताव्यक्तयोः कथं कार्यकारणभावव्यवस्थेति चेत् । उच्यते- १५ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥' इति लक्षणभेदात् । तथा हि'व्यक्तं हेतुमत, हेतुः कारणमस्यास्तीति कृत्वा' प्रधानेन हि हेतुमती बुद्धिः । बुद्धयाहंकारोऽहंकारेण षोडशको गणः पञ्चभिस्तन्मात्रैः पञ्च महाभूतानि न त्वेकमव्यक्तं तत्कारणभावात्, चिद्रूपश्च पुरुषो न २० जडस्वरूपस्य कारणमत्यन्तविलक्षणत्वात् । तथा महदादि व्यक्तमनित्यं विनाशि तिरोभावीत्यर्थः । नन्वेवमव्यक्तं तस्या अहेतुमत्वेनानित्यत्वायोगात् । अव्यापि च व्यक्तं नियतदेशवर्तित्वात् । नन्वेवमव्यक्तं विभुत्वात् । तथा व्यक्तं सक्रिय परिस्पन्दवत् । तथा हि
१ सो. का. १०। २ सां.त. को. पृ. ७० पं.२३ सा.त. कौ. पृ. ७० पं. ३
"Aho Shrut Gyanam"