________________
परि. ५. ८ ]
स्याद्वादरत्नाकर सहितः
1
स्वस्वरूपनिष्ठपदार्थस्यैकज्ञानप्रतिभासमात्रेण कार्यकारणभावप्रतिभासः । स्तम्भकुम्भादेरपि तत्प्रसंगात् । नाप्येकप्रतिमा सानन्तरमपरप्रतिभासयोगादेव । स्तम्भप्रतिमासानन्तरं हि कुम्भोऽपि प्रतिभासत इति तयो - रपि कार्यकारणभावः स्यात् । न च क्रमभाविपदार्थद्वयप्रतिभाससंबन्धेऽप्येकं ज्ञानमिति वक्तुं शक्यम् । सर्वत्र प्रतिभासभेदस्य भेदनित्र - ५ न्धनत्वात् । अथाग्निमति धूमस्य प्रत्यवभासनावद्भावः सविकल्पकप्रत्यक्षप्रसिद्ध इत्यप्यसमीचीनम् । गन्धस्यापि लोचनज्ञानविषयत्वप्रसंगात् । गन्धस्मरणसहकारिलोचनव्यापारानन्तरं सुरभि चन्दनमिति प्रत्ययप्रतीतेः । तन्न प्रत्यक्षेणासौ प्रतीयते । नापि प्रत्यक्षानुपलम्भाभ्यां प्रत्यक्षस्येवानुपलम्भस्थापि प्रतिषेध्य विविक्तवस्तुमात्रविषयत्वेनात्रा - १० सामर्थ्यात् । अथामि सद्भाव एवं धूमस्य भावस्तदभावे चाभावः । स चैताभ्यां प्रतीयत इत्युच्यते । तर्हि वक्तृत्वस्यासर्वज्ञत्वादिना व्याप्तिः स्वात्, तद्धि रागादिमत्त्वासर्वज्ञत्वसद्भावे स्वात्मन्येव दृष्टं तथा च सर्वज्ञवीतरागाय दत्तो जलाञ्जलि: । अथान्यभावे धूमस्य भावे तद्धेतुकताविरहात्सकृदप्यहेतोरनेस्तस्य भावो न स्यात् । दृश्यते च महानसादा- १५ वग्नितस्तस्य भावस्ततो नानग्धूमसद्भाव इति प्रतिबन्धसिद्धिरित्यभिधीयते । तदप्यभिधानमात्रम् । यथैव हीन्धनादेरेकदा समुद्भूतोऽप्यमिरन्यदाऽरणिनिर्मथनान्मण्यादेव भवन्नुपलभ्यते । धूमो वाग्नितो जायमानोऽपि गोपालघुटिकादौ पावकोद्भूतधूमादप्युपजायते । तथान्यभावेऽपि कदाचिद्धमो भविष्यतीति कुतः प्रतिबन्धसिद्धिः । अथ २० यादृशोऽग्निरिन्धनादिसामग्रीतो जायमानो दृष्टो न तादृशोऽरणितो मय्यादेर्वा धूमोऽपि यादृशोऽग्नितो न तादृशो गोपालघुटिकादौ वह्निप्रभवधूमादन्यादृशात्तादृशभावेऽतिप्रसंगादिति नाग्निजन्यधूमस्य तत्सदृ
-
All
१ गोपालादयोऽजा यस्मिन् पाले दारुनारिकेलादिनिर्मिते तमाखुपत्रभनौ निधाय प्रज्वाल्य च तद्धमं पिबन्ति तदधोभागे यद्वर्तुलाकृति जलसंचयपात्रं तत् घुटिकादेनाभिधीयते । तद्देशी भाषायां हुक्का, गुडगुडी, इत्यभिधीयते ।
"Aho Shrut Gyanam"
८१९