________________
पारे. ५ सू. ८ स्याद्वादरत्नाकरसहितः धूमस्याभावावगमात् । य एव चासौ भावे तद्भावोऽभावे चाभावस्तदेव कार्यकारणयोः कार्यकारणत्वम् । एवं च -
'एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः ।। विकल्पा दर्शयन्त्यर्था मिथ्यार्थान् घटितानिव ।।' प्रत्यक्षानुपलम्भमात्रावगतभावाभावपरमार्थाः कार्यकारणविषया ५ विकल्पाः । तथाभूता अपि तेऽर्था न सत्यार्थस्वरूपान् दर्शयन्ति । का पुनस्तेषामसत्यवस्तुरूपता । यदिदं घटितानामिव प्रतिभानमस्येदं कार्यमस्य चेदं कारणमिति । घटना चासत्यत्वम् । तथा हि---
'मिन्ने का घटनाऽभिन्ने कार्यकारणतापि का ।
अन्यस्य भावे. विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥' १० _ कार्यकारणभूतो ह्या भिन्नोऽभिन्नो वा स्यात् । यदि भिन्नस्तर्हि भिन्ने का घटना म्वस्वभावव्यवस्थितेः । अथाभिन्नस्तदाऽभिन्ने कार्यकारणतापि का नैव म्यात् । स्यादेतत् । न भिन्नस्याभिन्नस्य वा संबन्धः । किं तर्हि संबन्धाख्येनकेन संबन्धादिति । अत्रापि भावे सत्तायामन्यस्य संबन्धस्य विश्लिष्टौ कार्यकारणताभिमतौ लिष्टौ भ्यातां १५ कथं च ताविति ।
‘संयोगिसमवायादि सर्वमेतेन चिन्तितम् ।।
अन्योऽन्यानुपकारात्म न संबन्धी च तादृशः ॥' यतश्च कार्यकारणभावो न संबन्धो द्विष्ठत्वाभावेन संबन्धविलक्षण- २० त्वात् । अतः संयोगिसमवाय्यादि कारणमपाकृतं कीदृशमन्योन्यानुपकारात्म परस्परमुपकारशून्यस्वभावम् । कार्यकारणावस्थत्वे परस्परमुपकारम्य पारतन्त्र्येण संश्लेषणापेक्षया चाभावादेकसनिधावपरस्यासिद्धेः। यश्चैवं भावादुपकाररहितः स संबन्धी न भवतीति । अथास्ति कश्चित् समवायी योऽवयविरूपकार्यं जनयति । अतो नानुपकारादसंबन्धितेति । २५ तन्न । यतः--
"Aho Shrut Gyanam"