________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २७ यस्य सहकारित्वासिद्धेः । न हि स्वाभिप्रायानुरोधेन किंचित्कचित्सहकारितया कल्पयितुमुचितम् । किन्तु यम्यान्वयव्यतिरेको कार्येणानुविधीयते । न चान्न क्षुन्मोहनीयव्यतिरेकमनुविद्धती कापि निश्चिता ।
ननु सिद्धेषु तन्निश्चयो भविष्यतीति । मैवम् । सन्देहात् । तथा हि ५ सिद्धेषु किं वेदनीयाभावात्क्षुन्न भवति, आहोम्विन्मोहनीयाभावादिति ।
भवस्थकेवलिनि क्षुदभावो मोहनीयाभावप्रयुक्तो निश्चितो वेदनीयसद्भावादिति चेत् । न । तत्र क्षुदभावस्याऽद्यापि विवादास्पदयात् । नन्वेचं मोहनीयवदेव वेदनीयस्यापि क्षुत्कारणत्वं न स्यात् । मैवम् । क्षुत्कारणत्वेन तस्योभयसम्प्रतिपन्नत्वात् । नापि मोहनीयस्वभावा क्षुत् । प्रतिपक्षभावनानिवर्त्यत्वप्रसङ्गान् । यो हि मोहम्वभावः स प्रतिपक्षभावनया निवर्त्यते । यथा क्षमादिभावनया क्रोधादिः । मोहस्वभावा च क्षुद्भवाद्भरिष्टेति । तथा च श्रुद्वेदनाप्रतीकारार्थं शास्त्रं प्रतिपक्षभावनैवोपदिश्येत । न क्लेशभूयिष्ठा ध्यानाध्ययनविवातकारिणी पिण्डे
पणा । शीतोष्णबाधातुल्यत्वाच्च क्षुधो न मोहम्वभावत्वम् । अन्यथा १५ तद्बाधाया अपि मोहम्वभावत्वं स्यात् । ननु भगवतः क्षुदुपगमेऽशेष
ज्ञत्वादिविरोधः क्षुदुदयेऽम्मदादिवत्तत्र ज्ञानदर्शनचेष्टादेः प्रक्षयात् । तदसमीचीनम् । ज्ञानावरणादिप्रक्षये जातायामपि क्षुधि तत्क्षयायोगात् । तत्क्षयो हि ज्ञानावरणादिकर्मोदयनिबन्धनोऽतोऽम्मदादो तदुदयाति
शयात्तत्क्षयातिशयो युक्तो भगवति तु तद्रावरणादेरशेषम्यापगमात्स२० त्यामपि क्षुधि न ज्ञानादिक्षयः । न ह्यम्यभावे सत्यपीन्धने धूमो
भवति । तदेवं प्रमाणोपपन्नत्वादिति क्षुदभावसाधको हेतुरसिद्धः । तथा च कथं भुक्तिप्रतिषेधः । भुक्तिसाधकञ्चैतत्प्रमाणम् । विवादविषयापन्ने केवलिनि कदाचित्कवलाहारभुक्तिरस्ति । अविकलकारण
त्वात् । यद्यत्राविकलकारणं तत्तत्रास्ति । यथा कचित्प्रदेशेऽङ्करः । २५ तथाभूता च कदाचित्कवलाहारभुक्तिर्विवादविषयापन्ने केवलिनि !
१ आहारादिग्रहणविधिः । २ 'ज्ञानादिक्षणा' इति भ. पुस्तके पाठः।
"Aho Shrut Gyanam"