SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ परि. १.सू. ६ स्याद्वादरत्नाकरसहितः श्रोत्रेन्द्रियसम्बन्ध उदाहर्तुं न शक्यते । ततः समचायस्थ क्वचिदेवोदाहरणं सम्भवति नामावस्येव पंचस्वपि सम्बन्धेष्विति घोढा सन्निकर्षः । तत्र बाह्ये विषये रूपादौ चतुष्टयसन्निकर्षाज्ज्ञानं समुत्पद्यते आत्मा मनसा युज्यते मन इन्द्रियेण इद्रियमर्थेनेति । सुखादौ तु त्रयसन्निकर्षाज्ज्ञानमुत्पद्यते तत्र चक्षुरादिव्यापाराभावात् । आत्मा मनसा ५ संयुज्यते मनोलक्षणं चेन्द्रियं सुखादिना संयुक्तसमवायेन सम्बध्यते मनसा संयुक्त आत्मा तत्र समवेत सुखादिकमिति । आत्मनि तु योगिनां द्वयोरात्ममनसोरेव संयोगादुत्पद्यते ज्ञानमिति । सोऽयं प्रत्यक्षज्ञानं प्रति सन्निकर्षः प्रोक्तः । अनुमानादिकं तु प्रति द्वयोरेवात्ममनसोः सन्निकर्ष इति । ..तदित्थमर्थप्रमितिप्रसिद्धये ने सन्निकर्षः करणं न युज्यते ॥ तत्र प्रमाणत्वममुष्य मन्यतां विमुच्य मात्सर्यमकार्यचेष्टितम् ॥३८॥ इत्यक्षपादानुगतैः प्रमाणमाख्यायि यः षड्विधसन्निकर्षः ॥ स्याद्वादसान्द्रामृतपानशौण्डैः संयुज्यते नैव विचार्यमाणः ॥ ३९॥ तथाहि यत्तावदर्थव्यवसितावसाधकतमत्वादिति हेत्वेकदेशासिद्धता- १५ विध्वंसकानुमानेन तस्माद्दारुद्वैधीभावस्वभावे फले परश्वधादिवदर्थनिश्चितिरूपे फले सन्निकर्ष एव करणं तस्यैव तत्र घटमानत्वादित्यवादि तन्नावदातम् । तस्यैवेत्यादिहेतोरसिद्धत्वात् । सन्निकर्षातिरिक्तस्य भावेन्द्रियविशेषस्यैव करणत्वेन तत्र घटमानत्वात् । इह खलुभयं भावे. न्द्रियं लब्धिरुपयोगश्च, 'लबध्युपयोगी भावन्द्रियम्' इति वचनात् । २० तत्रार्थग्रहणशक्तिर्लब्धिः । तन्निमित्त आत्मव्यापारपरिणामविशेष उपयोगः । तच्च द्वयमप्यात्मनः फले योग्यत्वाध्याप्रियमाणत्वाच्च प्रसिद्धम् । तदुक्तम् । 'भावन्द्रियाणि लब्ध्यात्मोपयोगात्मानि जानते । स्वार्थसंविदि योग्यत्वाद्वयापृतत्वाच संविदः ॥१॥ १ वंशस्थम् ' २ '' इति प. पुस्तके पाठः । ३ तत्त्वार्थसू. २-१८. ४ तत्त्वार्थश्लोकवार्तिक २-१८ श्लो. १३ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy