________________
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. ६ हि श्रोत्रम्, तत्र च समवेतः शब्दः अम्बरगुणः शब्द इति सिद्धान्तात्। शब्दत्वसामान्य समवेतसमवायादवसीयते श्रोत्राकाशसमवेते शब्दे तद्धि समवेतमिति । उक्तसम्बन्धसम्बद्धवस्तुविशेषणविशेष्यभावादभावः समवायश्च निश्चीयते । तद्यथा । संयुक्तविशेषणत्वादभावग्रहणमफलवती शाखेति । चक्षुषा हि संयुक्ता शाखा तस्या विशेषणं फलाभावः । एवमधदं भूतलमित्यादीन्यप्यत्रोदाहरणानि द्रष्टव्यानि संयुक्तविशेष्यत्वादिह शाखायां फलाभाव इति । संयुक्तसमवेतविशेषणत्वात् पटगतः शुक्लगुणो रूपशून्य इति संयुक्तसमवेतविशेष्यत्वादिह
शुक्लगुणे रूपाभाव इति । संयुक्तसमवेतसमवेतविशेषणत्वात् गुणगतं १. सामान्यं सामान्यान्तरशून्यमिति । संयुक्तसमवेतसमवेतविशेष्यत्वादिह
गुणगतसामान्ये सामान्यान्तराभाव इति । समवेतविशेषणत्वात् गुणशून्योऽयं शब्द इति । समवेतविशेष्यत्वादिह शब्दे गुणाभाव इति । समवेतसमवेतविशेषणत्वाच्छब्दत्वादिसामान्य सामान्यान्तरशून्यमिति । समवेतसमवेतविशेष्यत्वादिह शब्दत्वादिसामान्ये सामान्यान्तराभाव इति। एवं समवायस्यापि यथासम्भवमुदाहरणानि दयन्ते । तद्यथा संयुक्तविशेष्यत्वात् समवायस्य ग्रहणम् । इह पटे रूपसमवाय इति । संयुक्तविशेषणत्वाद्रूपसमवायवानयं पट इति । संयुक्तसमवेतविशेष्यत्वादिह गुणे जातिसमवाय इति । संयुक्तसमवेतविशेषणत्वाजातिसमवायवानयं
गुण इति । संयुक्तसमवेतसमवेते गुणगतजातिविशेषेऽधिकरणभूते २० वस्त्वन्तरसमवायाभावात् संयुक्तसमवेतसमवेतविशेष्यत्वविशेषण
त्वाभ्यां समवायस्य ग्रह्णोदाहरणे न सम्भवतः । समवेतविशेष्यत्वादिह शब्दे शब्दत्वादिजातिसमवाय इति । समवेतविशेषणत्वादिह जातिसमवायवानयं शब्द इति । समवेतसमवेते
शब्दत्वादिसामान्ये वस्त्वन्तरसमवायस्याभावात् समवेतसमवेतविशेष्य२५ विशेषणनिबन्धनं समवायग्रहणं नास्ति तस्मादितः परमिहापि
२ ' एवं ' इति नास्ति प. पुस्तके।
"Aho Shrut Gyanam"