SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ११] स्याद्वादरत्नाकरसहितः १३३ अपि चानिर्वचनीयख्यातिरित्यत्र ख्यातिरिति किमयं ख्या प्रकथने ' इत्यस्य प्रयोगः 'ख्या प्रथने ' इत्यस्य वा । उभयत्रापि न त्वन्मतसिद्धिः । सदसद्रूपस्य वस्तुनः कथनीयतायाः प्रथमानतायाश्च युज्यमानत्वात् अन्यथा:सर्वव्यवहारविलोपप्रसङ्गः । किञ्च किं निरुक्तिविरह एवानिर्वचनीयत्वमाहोस्विन्निरुक्तिनिमित्तविरहः । न प्रथमः कल्पः ५ कल्पनाहः । इदं रजतं नेदं रजतमिति निरुक्तेरनुभूयमानत्वात् । नापि द्वितीयो निरुक्तर्हि निमित्तं ज्ञानं चा स्याद्विषयो वा । न प्रथमस्य विरहः । 'रजतं भाति यद्धान्तौ तत्सदेके परे त्वसत् । अन्येऽनिर्वचनीयं तदाहुस्तेन विचार्यते' इति इष्टसिद्धिकारिकायां 'रजतं भाति यद्भ्रान्तौ' इत्यनेन वचसा विपरीतख्यातेः स्वयमेवा- १० भ्युपगमात् । नापि द्वितीयम्य विरहः । यतो विषयः किं भावरूपो नास्त्यभावरूपो वा । प्रथमकल्पनायामसत्ल्यात्यभ्युपगमप्रसङ्गः । द्वितीयकल्पनायां तु सख्यातिरेव । उभावपि न स्त इति चेत् । ननु भावाभावशब्दाभ्यां लोकप्रतीतिसिद्धावेव तावभिप्रेतौ विपरीतौ वा । प्रथमपक्षे तावद्यथोभयोरेकत्र विधिर्नास्ति तथा प्रतिषेधोऽपि । परस्परविरुद्ध- १५ योर्मध्यादेकतरविधिनिषेधयोरन्यतरनिषेधविधिनान्तरीयकत्वात् । द्वितीयपक्षे तु न काचित् क्षतिः । न ह्यलौकिकविषयसहस्रनिवृत्तावपि लौकिकज्ञानविषयनिवृत्तिस्तन्निरुक्तिनिवृत्तिर्वा । अथापि निःस्वभावत्वमनिर्वचनीयत्वम् । अत्रापि निसः प्रतिषेधार्थत्वेन स्वभावशब्दस्यापि भावाभावयोरन्यतरार्थत्वे पूर्ववत् प्रसङ्गः । प्रतीत्यगोचरत्वं २० निःस्वभावत्वमिति चेत् । अत्र स्ववचनविरोधः प्रतीत्यगोचरत्वं प्रतीयते चेति । यथा प्रतीयते न तथेति चेत्, अत्र न विप्रतिपद्यामहे । विपरीतख्यातेरेवमभ्युपगमे समागतत्वादिति । १ पाणिनिधातुपाठेऽदादिगणे धा. १७. २ अयं धातुः पाणिनिव्याकरणे नोपलभ्यते । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy