________________
परि. १ सू. ११ स्याहादरल्लाका साहितः
१३१ न्यायापेन न खलु सुधियः सनिरन्ते कदाचित्
न्यायश्चान प्रकृतिसुभगः ख्यापितो नैव कश्चित् ॥ ११६ ॥ अनिर्वाच्यख्याति- केचित्पुनरनिर्वाच्यख्याति भ्रान्तिमुपागमन् ॥
खण्डनम् । युक्तिमार्गममुञ्चैतत्प्रवेशे निरदीदिशन् ॥११७।। तथाहि शुक्तिशकले प्रतिभासमानस्य कलधौतस्य यदि सत्त्वं ५ स्यात्तदा तद्बुद्धेरभ्रान्तत्वप्रसङ्गः, सत्यकलधौतबुद्धिवत् । असत्त्वे पुनर्गगननलिनादिवत् प्रतिभासप्रवृत्त्योरविषयत्वप्रसक्तिः । अथैतदभिधीयते शुक्तौ प्रतिभासमानं रजतं न सद्रूपं नासद्रूपं किन्तु सदसद्रूपमिति । तदपि नोपपन्नम् । प्रागुक्तोभयपक्षनिक्षिप्तदोषानुषक्तेः । तदुक्तं 'प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न स' इति । सदसतो- १० रैकात्म्यविरोधाच नायं पक्षः परीक्षां क्षमते । यदि हि सद्रूपं कथमसद्रूपम् । असद्रूपं तत्कथं सद्रूपम् । तन्न सदसद्रूपमपि निर्वक्तुं शक्यत इति ।
एवं च--- यतः सत्वासत्त्वप्रभृतिभिदया भद्र पटते ___ क्वचित् नान्तिर्ज्ञाने न खलु विषयो युक्तिकलितः । अनिर्वाच्यख्यातिः अयति तदियं सिद्धिसराणिं ___ समुन्मीलद्युक्तिव्यतिकरवशादप्रतिहत्ता ॥ ११८ ॥ श्रियं यैरनिर्वाच्यख्यातिः ख्यातिधिरोधिनी । '
अनिर्वाच्या न ते न स्युायविस्तरवेदिनाम् ॥ ११॥ २० तथाहि । शुक्तिशकले न किञ्चित्कलधौतं नाम ख्याति । किं तहि शुक्तिखण्डमेव कलधौततया । तथैव प्रत्यभिज्ञानानुमानानां विवेकाख्यातिप्रतिक्षेपे प्रदर्शितत्वात् । तच शुक्तिकाखण्ड सच्चासत्त्वाभ्यां नानिर्वचनीयम् । तद्धि स्वरूपेण ससररूपेण चासदोषक्शा
"Aho Shrut Gyanam"