________________
त्रिषष्टिशलाकापुरुषचरिते ।।३३५ ।।
कृतकृत्यं च तं देवी वैताढ्यस्य तलेऽमुचत् । ददौ चाष्टोत्तरं तस्मै कामदं गुलिकाशतम् ॥ ४४७ ।। क्षिप्त्वैकां गुलिकां वक्त्रे स दध्यौ वन्दिषीय यत् । देवाधिदेवप्रतिमां श्रीवीतभयपत्तने ॥ ४४८ ।। इति चिन्तासममपि सोऽथ वीतभयं ययौ । देवाधिदेवप्रतिमां तेन कुब्जाऽप्यवन्दयत् ॥ ४४९ ।। शरीरापाटवं चाभूद्गान्धारस्यापरेऽहनि । तं च प्रतिजजागार कुब्जार्हद्धर्मवत्सला ।। ४५० ।। गान्धारोऽपि स्वमासन्नमवसानं विदन् सुधीः । कुब्जायै गुलिकाः प्रादात्प्रव्रज्यां स्वयमाददे ।। ४५१ ।। रूपार्थिनी कुरूपा साक्षिप्त्वैकां गुलिकां मुखे । उपपादभवेवाभूद् द्राग्दिव्याकारधारिणी ।। ४५२ ॥ सुवर्णवर्णसर्वांगा साऽभूद् गुलिकया तया । ततोऽभ्यधत्त सर्वोऽपि सुवर्णगुलिकेति ताम् ।। ४५३ ।। साथ द्वितीयां गुलिकां मुखे कृत्वेत्यचिन्तयत् । वृथैव रूपमीदृङ् मेऽनुरूपश्चेत् पतिर्न हि ।। ४५४ ।। पितेव मेऽयं नृपतिः पत्तयोऽस्यापरे नृपाः । तच्चंडशासनश्चंडप्रद्योतोऽस्तु पतिर्मम ।। ४५५ ।। प्रद्योताग्रे च तद्रूपं वर्णयामास देवता । प्रद्योतोऽपि हि कुब्जायाः प्रार्थने दूतमादिशत् ।। ४५६ ।। गत्वा तामर्थयांचक्रे दूतस्तं साऽप्यदोऽवदत् । प्रद्योतं दर्शयाथाऽऽख्यात्प्रद्योताय तथैव सः ।। ४५७ ।। तदैवैरावतारूढवासवश्रियमाश्रयन् । आरूढोऽनिलवेगेभं निशि प्रद्योत आययौ ।। ४५८ ।। तस्मै यथा सा रुरुचे तस्यै सोऽपि तदा तथा । प्रद्योतोऽथावदत्कुब्जामब्जाक्ष्येह्येहि मत्पुरीम् ॥ ४५९ ॥ कुब्जाऽब्रवीन्न जीवामियां विना क्षणमप्यहम् । देवाधिदेवप्रतिमां तां मुक्त्वा यामि न क्वचित् ॥ ४६० ॥
এএ
दशमं पर्व एकादश:
सर्गः
श्रीमहावीरजिनचरितम् ।
उदायन
नृपतिचरित्रम् |
।।३३५ ॥