________________
पृष्ठ क्र.
॥३४॥
अष्टमपर्वान्तर्गतानि सुभाषितानि ।
सुभाषितम् । को हि दीपे सत्यग्निमीक्षते । अर्थः स्वभावसंसिद्धो न हि याञ्चामपेक्षते । धर्मः करणीयः शुभैषिणा। मंत्रशक्तेहि नावधिः । महतामन्वयं श्रोतुं कस्य नोत्कण्ठते मनः । को वस्तुमिच्छेदीदृक्षे संसारेऽत्यन्तदारुणे । अतुल्यरुपलावण्यः कस्य चित्रीयते न हि । अन्यायी यदि वा न्यायी, त्रातव्यः शरणागतः । विना सिंहकिशोरेण को ह्यलं हंत दन्तिने । कामान्धा किं न कुर्वते ।
बहुरत्ना हि भूरियम् । __ पूर्वजन्मनिदानं हि नान्यथा जातु जायते । रहस्यं खलु नारीणां हृदये न चिरं स्थिरम् । पुण्यैः किं न हि सिद्ध्यति । शर्करातोऽपि मधुरा वार्धिकथिता सती ।
॥३४॥