________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व प्रथमः
सर्गः
॥२०॥
श्रेयांसजिनचरितम्।
28282828282828282828282828
तस्य चाऽऽक्रान्तदिक्चक्रं करे चक्रमलक्ष्यत । उत्पातभूतो द्विषतां द्वितीय इव भास्करः ॥२५१ ॥ हृदयस्थो विदित्वाऽस्मान् विरुद्धान् मा वधीदिति । नाभक्तिं मनसाऽप्यस्य विदधुर्वसुधाधिपाः ॥ २५२॥ योगिनः परमात्मानमिव तं हृदयान्निजात् । न जातूत्तारयामासु : सर्वेऽपि पृथिवीभुजः ॥ २५३ ॥ स आघाटशिलास्तम्भीभूतवैताढ्यपर्वतम् । त्रिखण्डं भरतक्षेत्रमात्मसादकृतौजसा ॥ २५४ ॥ द्वे च विद्याधरश्रेण्यौ वैताढ्याने जाविव । विद्यौजोभ्यां पराजिग्ये स विद्याधरपुङ्गवः ॥२५५ ॥ मागधेश-प्रभासेश-वरदामाधिपैरसौ । प्राभृतैरर्चयाञ्चक्रे सुरैरपि नृपैरिव ॥ २५६ ॥ राज्ञां मुकुटबद्धानां सहस्राः षोडशाऽनिशम् । तच्छासनं मुकुटवद् धारयामासुरूर्जितम् ॥२५७ ॥ एकातपत्रं साम्राज्यं भुञ्जानः स महाभुजः । अतिवाहितवान् कालं पृथ्व्यामिन्द्र इव स्थितः ॥ २५८ ॥ स्वच्छन्दं क्रीडतोऽन्येचुरश्वग्रीवस्य भूपतेः । अरिष्टाभ्रमिवाऽऽकाशेऽकाण्डे चिन्तेति हृद्यभूत् ।। २५९ ॥ अपाग्भरतवर्षार्धे ये केऽपि वसुधाभुज : । मद्भुजस्थाम्नि तेऽमज्जन्नम्भोधौ भूधरा इव ॥ २६० ॥ पृथिव्यामेकमल्लस्य तस्यापि वधको मम । मृगेष्विव मृगेन्द्रस्य को राजसु भविष्यति ? ॥२६१॥ दर्ज्ञानमेतदथवा ज्ञास्यामीति विमृश्य सः । अश्वबिन्दुं निमित्तज्ञं द्वाःस्थेनाऽऽजूहवत् क्षणात् ॥ २६२॥ राज्ञा स्ववचनं पृष्ट : स तु नैमित्तिकोऽवदत् । शान्तं पापं प्रतिहतममङ्गलमिदं वचः ॥ २६३॥
28282828282828282828282828
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥२०॥
१अभक्तिः अनादरः। २ आघाट: सीमा। ३ आत्मसात्-अधीनम्-अकृत ओजसा-इति विभागः । ४ ओज : शूरता। ५ पराजय प्राय । ६ उपद्रवजनकम् अभ्रम् । ७ अनवसरे । ८ स्थाम शौर्यम् । ९ अमज्जन्- ब्रुडिता:। * मृगेष्वपि म ।