________________
॥४१॥
सुभाषितम् । पुण्याऽऽकृष्टं स्वयं सर्व किं किं न स्यान्महात्मनाम् । सर्पघर्ष हि सो जानाति नाऽपरः । श्रीच्छिदेऽञ्जनलेशोऽपि धौतस्य श्वेतवाससः । बालोऽपि केसरी नेभान् महतोऽपि पलायते ? | महतोऽपि हि किं सात् तार्क्ष्यबालोऽपसर्पति ? ।। क्षत्रियाणां क्रमो ह्येष युद्धं स्वाम्याज्ञया खलु । फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत् । भक्तिमन्तोऽप्रमादेनायुक्तेभ्योऽप्यतिशेरते । महतामन्तकालोऽपि पर्वणे न पुनः शुचे । विषयाक्षिप्तमनसा गलेद्धि स्वामिशासनम् । दुर्लङ्घ्य शासनं ह्युग्रशासनानां महीभुजाम् । अनुष्ठाने प्रवर्त्तन्ते ज्ञात्वा खलु महाशयाः । कस्तृप्येदमृतस्य हि । प्राणान् रक्षेद् धनैरपि । राज्ञां भवन्ति दूता हि यथावस्थितवादिनः । शूराणां ह्यभिगमनं सुहृदीवासुहृद्यपि । तस्य श्रीर्यस्य विक्रमः । भवन्ति ह्यधभरतस्वामिनः प्रतिविष्णवः ।
॥४१॥