________________
त्रिषष्टिशलाकापुरुषचारेते
षष्ठं पर्व तृतीयः सर्गः | आनन्द वासुदेव
पुरुषपुण्डरीक
I४१॥
बलदेवबलि-प्रतिवासुदेव |चरितम् ।
उपेन्द्रसेनो राजेन्द्रपुरेशोऽथ स्वकन्यकाम् । ददौ पद्मावती नाम पुण्डरीकाय विष्णवे ।। २८ ।। श्रुत्वा रूपश्रिया दासीकृतानङ्गाङ्गनां च ताम् । प्रतिविष्णुर्बलि म हर्तुं तत्र समाययौ ॥ २९ ॥ बलि भुजबलाध्मातमवज्ञातजगद्बलम् । आनन्दपुण्डरीकावप्यभ्यषेणयतां ततः ॥३०॥ शार्ङ्गलाङ्गलमुख्यानि तयोः शस्त्राणि नाकिभिः । अर्पयांचक्रिरे शस्त्रागारायुक्तैरिव क्षणात् ।।३१॥ बलेर्बलैर्बलीयोभिरभज्यत तयोर्बलम् । चक्रिरे सिंहनादांश्च स्वस्वामिजयशंसिनः ।। ३२ ॥ आनन्दः पुण्डरीकश्च रथस्थौ रणकर्मणे । डुढौकाते प्रमुदितौ वीराणां हि रणो मुदे ।। ३३ ।। पाञ्चजन्यं पुण्डरीकस्तारमापूरयत्ततः । यादश्चक्रेमिवाम्भोधे रणान्नष्टं द्विषद्बलम् ।।३४ ।। शाङ्ग चास्फालयच्छार्नी शङ्खस्येवानुवादकम् । हतशेषद्विषोऽनश्यंस्तन्निनादेन भूयसा ।।३५ ॥ उपतस्थे बलिर्योद्धं स्वयमुल्बणविक्रमः । निरन्तरैः शरैर्वर्षन् धारासारैरिवाम्बुदः ।। ३६ ॥ चिच्छेद तदिषून विष्णुर्विष्णोः सोऽपि तथाच्छिदत् । एवं भूयः शरच्छेदक्रुद्धश्चक्रं बलिर्दधौ ।। ३७ ॥ अरे न हि भवस्येष इति जल्पन् बलिर्बली । भ्रमयित्वामुचच्चक्रं पुण्डरीकाय विष्णवे ।।३८ ।। चपेटालग्नतत्तुम्बप्रहारान्मूर्छितः क्षणम् । लब्धसंज्ञः क्षणाद्विष्णुस्तच्चक्रं स्वयमाददे ॥ ३९ ॥ अरे न हि भवस्येष इति जल्पञ्जनार्दनः । भ्रमयित्वामुचच्चक्रं चिच्छेद च बलेः शिरः ॥ ४० ॥ ततश्चानन्दसहितो मथ्नन्नहितभूभुजः । विष्णुश्चकार दिग्यात्रामर्धचक्री बभूव च ॥४१॥ १ दासीकृताऽनङ्गस्य कामस्याङ्गना रतिर्यया ताम् । २ तिरस्कृतं जगतो बलं येन तम् । ३ शस्त्रशालाधिकारिभिः । ४ बलवद्भिर्बलैः सैन्यैः । ५ जलचरसमूहः । ६ स्वशराणां छेदेन क्रुद्धः । ७ बलवान् ।
वासुदेवप्रतिवासुदेवयोयुद्धम् ।।
॥४१॥