________________
त्रिषष्टिशलाकापुरुषचरिते
॥४०॥
षष्ठं पर्व तृतीयः सर्गः आनन्द | वासुदेवपुरुषपुण्डरीकबलदेवबलि-प्रतिवासुदेव चरितम् ।
नाना महाशिरो नम्रीकृतराजमहाशिराः । तत्राभूदवनीपालो लोकपाल इवापरः ॥ १३ ॥ तस्याद्भुतचरित्रस्य धात्रीपतिशिरोमणेः । धिषणा विक्रमेणेव श्रीविवेकेन भूषिता ।। १४ ।। सा कापि हि कला नास्ति या तस्मिन्न ह्यदृश्यत । जीवजातिरिवाम्भोधौ स्वयंभूरमणाभिधे ॥ १५ ॥ नाभूद्वार्तापि चौराणां तस्मिन् शासति मेदिनीम् । केवलं चोरयामास स स्वयं तु सतां मनः ।। १६ ।। एकेषां जनयन् प्रीतिमपरेषां पुनर्भयम् । नात्ततार हृदयात् स सतामसतामपि ।। १७ ॥ वैजयन्तीत्यभूद्रूपाज्जयन्ती स्वर्वधूरपि । तस्य पल्यपरा लक्ष्मीरिव लक्ष्मीवतीति च ।। १८ ।। सहस्रारात्परिच्युत्य सुदर्शनवरः सुरः । वैजयन्त्या महादेव्या उदरे समवातरत् ।। १९ ॥ महास्वप्नचतुष्केण बलजन्माभिसूचिना । हृष्टा देवी वैजयन्ती दधौ गर्भमनुत्तरम् ।। २० ।। काले च सुषुवे पूर्णे पूर्णचन्द्रमिवामलम् । एकोनत्रिंशद्धन्वोच्चमानन्द इति नन्दनम् ।। २१ ।। जीवोऽथ प्रियमित्रस्य तुर्यकल्पात्परिच्युतः । लक्ष्मीवत्या महादेव्याः कुक्षौ समवतीर्णवान् ।। २२ ॥ सप्तभिश्च महास्वप्नैः सूचितोपेन्द्रजन्मभिः । हृष्टा लक्ष्मीवती गर्भ धारयामास देव्यथ ।। २३ ।। कालेऽसूत सुतं सा चैकोनत्रिंशद्धनून्नतम् । अभिधानेन पुरुषपुण्डरीकं शितिद्युतिम् ।। २४ ॥ भ्रातरौ ववृधाते तो पित्रोः सह मनोरथैः । तार्क्ष्यतालध्वजौ नीलपीताम्बरधरौ सदा ॥ २५ ॥ कम्पयन्ताविव महीं चेलतुर्लीलयापि तौ । बालावपि न चोद्वोढुमलं तौ बालधारकाः ॥ २६ ॥ . क्रमेण च प्रपेदाते यौवनं नेत्रपावनम् । तावशेषकलाम्भोधिपारगौ च बभूवतुः ।। २७ ।। १ नम्रीकृतानि नामितानि राज्ञां महान्ति शिरासि येन सः । २ उपेन्द्रो वासुदेवः । ३ नीलकान्तिम् । ४ बालरक्षकाः ।
जन्म ।
||४०॥