________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥७१ ।।
दोलान्दोलनसंसक्ता योषितोऽत्रार्द्रयौवनाः । पतिनामानि पृच्छ्यन्ते सखीभिर्यष्टिपाणिभिः ॥ ४२ ॥ स्वयं चिन्वन्ति पुष्पाणि ग्रथ्नन्ति स्वयमेव हि । स्वयमर्चन्ति पुष्पास्त्रं स्वयं मानं त्यजन्ति च ॥ ४३ ॥ स्वयं दूतीभवन्तीह मनस्विन्योऽपि सम्प्रति । अनुभावो विजयते ऋतुराजस्य कोऽप्ययम् ॥ ४४ ॥ ॥ युग्मम् ॥
पिकीनां कूजितैरत्र भृङ्गीणां विरुतैरपि । सुप्तस्मरनृपोद्बोधबन्दिकोलाहलायितम् ॥ ४५ ॥ पुष्पोत्तंसाः पुष्पहाराः पुष्पकेयूरकङ्कणाः । पाखण्डमिव पुष्पेषोर्युवान इह बिभ्रति ॥ ४६ ॥ वसन्तसखसङ्काशवसन्तेऽस्मिन्नुपस्थिते । विज्ञापयति देव त्वां देवी लक्ष्मीवती मया ॥ ४७ ॥ अद्य सूरनिपाताख्यमुद्यानं नन्दनोपमम् । गत्वा मधुश्रियं नव्यां द्रष्टुं नः कौतुकं प्रभो ॥ ४८ ॥ अस्तुंकारस्तद्वचसः कुमारः सपरिच्छदः । तदैव हि तदुद्यानं जगामानङ्गधाम सः ॥ ४९ ॥ लक्ष्मीवतीप्रभृतीनि सप्त देवीशतानि च । कुमारमनुयान्ति स्म तारा इव निशाकरम् ॥ ५० ॥ एकच्छ्त्रमिव च्छायापादपैरतिविस्तृतैः । अद्वैतामोदसाम्राज्यमिव पुष्पितशाखिभिः ।। ५१ ।। गलत्परागकणिकापङ्किलाबालमण्डलम् । फलभारनमच्छाखिशाखानुस्पृष्टभूतलम् ॥ ५२ ॥ क्वाप्युन्नमन्नमन् क्वापि योगीव विवरं विशन् । सान्तःपुरस्तदुधानं कुमारो विजहार सः ।। ५३ ।। ॥ त्रिभिर्विशेषकम् ॥
१ आर्द्रं नवीनं यौवनं यासां ताः । २ कामदेवम् । ३ सुप्तो यः स्मरनृपस्तस्योद्बोधे बन्दिनां कोलाहलमिवाचरितम् । ४ कामदेवस्य । ५ अद्वितीय य आमोदस्तस्य साम्राज्यमिव । ६ गलन्त्यो याः परागकणिकास्ताभिः पडिलानि अबालानि महान्ति मण्डलानि ।
पञ्चमं पर्व
तृतीयः सर्गः
श्री शान्तिनाथजिन
चरितम् ।
देवपरीक्षा ।
।। ७१ ।।