________________
पञ्चमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते 11६९॥
सर्गः
श्रीशान्तिनाथजिनचरितम् ।
अनन्तवीर्यजीवोऽपि प्रच्युत्याच्युतकल्पतः । आगाल्लक्ष्मीवतीकुक्षि खादिवाब्दजलं महीम् ॥१३॥ सुस्वप्नसूचितं सूनुमसूत समयेऽथ सा । सर्वलक्षणसंपूर्णमादित्यमिव तेजसा ॥ १४ ॥ जन्मोत्सवादप्यधिकेनोत्सवेन शुभेऽहनि । सहस्रायुध इत्याख्यां पितरौ तस्य चक्रतुः ।। १५ ॥ पीयूषदीधितिरिव सोऽपि चावर्धत क्रमात् । कलाकलापसंपूर्णः प्रतिपेदे च यौवनम् ।। १६ ॥ स राजकन्यां कनकश्रियं नाम वपुःश्रिया । अतिश्रियं पर्यणैषीपश्रीमकरध्वजः ॥१७॥ तस्यापि तस्यां संजज्ञे संपूर्णनरलक्षणः । सूनुः शतबलिर्नाम महाबल इवौजसा ॥ १८ ॥ अथैकदा पुत्रपौत्रप्रपौत्रैर्मित्रमन्त्रिभिः । सामन्तैश्च सहाध्यास्त राजा क्षेमङ्करः सभाम् ॥ १९ ॥ तदा चैशानकल्पेऽभूदिति चर्चा दिवौकसाम् । अनुवज्रायुधं धात्र्यां दृढसम्यक्त्वशालिनः ॥ २० ॥ अश्रद्दधानस्तां वाचं चित्रचूलाभिधः सुरः । विचित्ररत्नमुकुटश्चलत्कुण्डलमण्डलः ॥२१ ॥ मिथ्यात्वमोहितमना नास्तिकीभूय दुर्मतिः । समाययौ विवेदिषुस्तां क्षेमङ्करपर्षदम् ।। २२ ॥ तत्रालापेषु चित्रेषु जायमानेषु सोऽमरः । आस्तिक्योद्योतमाक्षिप्य सावष्टम्भमदोऽवदत् ।। २३ ॥ नास्ति पुण्यं न पापं न जीवो लोकःपरो न च । आस्तिक्यबुद्ध्या त्वेतेषों मुधा क्लिश्यन्ति देहिनः ॥२४॥ निर्व्याजसम्यक्त्वधरस्ततो वज्रायुधोऽभ्यधात् । भोः प्रत्यक्षविरुद्धं ते वचस्विन् किमिदं वचः ॥२५॥ त्वं प्रयुज्यावधि तावत् सम्यक्पश्यात्मनोऽपि हि । प्राग्जन्मधर्मानुष्ठानफलमेतद्धि वैभवम् ॥२६॥ पूर्वजन्मनि मर्त्यस्त्वममर्त्यस्त्वधुनाभवः । न चेद्भवति जीवस्तब्रूहीदं घटते कथम् ॥२७॥ १ आकाशात् । २ लक्ष्मीमतिक्रान्ताम् । ३ विवादं कर्तुमिच्छुः । ४ आस्तिक्यस्य प्रकाशं तिरस्कृत्य । ५ पुण्यादीनाम् ।
देवपरीक्षा।
॥ ६९॥