________________
[ तृतीयः सर्गः ।
त्रिषष्टिशलाका
पुरुषचरिते
पञ्चमं पर्व तृतीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
॥६८॥
अपराजित
अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु विद्यते । सीताया दक्षिणतटे विजयो मङ्गलावती ॥१॥ तत्रास्ति नगरी रत्नसंचया नाम विस्तृता । रत्नसंचयवत्त्वेन रत्नाकरवधूरिव ॥२॥ तत्र क्षेमकरो नाम योगक्षेमकरः श्रियः । समीरण इवौजस्वी बभूव वसुधाधरः ॥३॥ निर्मला रत्नमालेव रत्नमालेति नामतः । पुष्पमालेव मृदङ्गी तस्याभूत्सहचारिणी ॥ ४ ॥ अपराजितजीवः सोऽच्युतेन्द्रः प्रच्युतोऽच्युतात् । शौक्तिकेयमिव शुक्तौ तत्कृक्षावुदपधत ॥५॥ चतुर्दश महास्वप्नान वजं पञ्चदशं तथा । सुखसुप्ता महादेवी निशाशेषे ददर्श सा ॥ ६ ॥ पत्ये प्रबुद्धा साचख्यौ व्याचख्यौ सोऽपि यत्तव । वज्रीव वीरतनयश्चक्रवर्ती भविष्यति ॥७॥ काले सा सुषुवे पुत्रं पवित्रं मधुराकृतिम् । षष्ठमिव लोकपालं लोकोत्तरपराक्रमम् ॥८॥ गर्भस्थितेऽस्मिन्सा स्वप्ने देवी वजं व्यलोकयत् । तेन वज्रायुध इति तस्य नाम ददौ पिता ॥९॥ लोकोत्तरवपुर्लोकचक्षुर्दोषादिने दिने । स्फुटल्ललन्तिकारिष्टये व्यवर्धिष्ट क्रमेण सः ॥१०॥ सुरासुरनरस्त्रीणामेकं हृदयमोहनम् । स प्राप यौवनं सर्वकलाजलधिपारगः ॥११॥ सोऽथ लक्ष्मीवती नाम लक्ष्मीमिव वपुष्मतीम् । राजपुत्रीमुपायंस्त हस्तविन्यस्तकरणः ॥ १२ ॥ १ मौक्तिकम् । २ स्फुटन्ती विकसन्ती ललन्तिका माला तया अरिष्टः शुभः ।
SARSHASHRSHASHRSHASHA
जीवस्य
वज्रायुधत्वेन जन्म।
॥६८॥