________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९२॥
चतुर्थं पर्व सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
288888882828282828282828282
स्वनामश्रवणात् केयं ममेत्याशङ्कितोऽथ सः । पुरोभूयेत्यभाषिष्ट प्रत्यक्षेवेष्टदेवता ॥ २३७॥ भद्रे ! सनत्कुमारः कः कासि त्वं किमिहागता । किंवा ते व्यसनं येन तं स्मरन्तीति रोदिषि? ॥२३८॥ इत्युक्ता तेन सा बाला बलादालादमीयुषी । पीयूषमिव वर्षन्ती गिरा मधुरयाऽवदत् ॥ २३९ ॥ साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेः । देव्याश्च चन्द्रयशसः सुनन्दा नाम पुत्र्यहम् ॥ २४०॥ कुरुवंशनभोभानोरश्वसेनस्य भूपतेः । सूनुः सनत्कुमारस्तु रूपन्यकृतमन्मथः ॥ २४१॥ स मनोरथमात्रेण भर्ता मम महाभुजः । तस्मै पितृभ्यां दत्ताऽस्मि यस्मादुदकपूर्वकम् ॥२४२ ॥ ततोऽकृतविवाहां मामेको विद्याधरात्मजः । स्वकुट्टिमादिहानैषीत् परस्वमिव तस्करः ॥२४३ ॥ इमं विकृत्य प्रासादं मामत्रैव विमुच्य च । क्वापि विद्याधरः सोऽगान जाने किं भविष्यति? ॥२४४॥ अवोचदार्यपुत्रोऽपि मा भैषीः कातरेक्षणे ! । सनत्कुमारः सोऽस्म्येष कौरव्यो यं स्मरस्यलम् ॥ २४५ ॥ प्रत्यभाषिष्ट साऽप्येवं चिराद् दृष्टिपथेऽद्य मे । देव ! दैवेन सुस्वप्नमिव दिष्ट्याऽसि दर्शितः ॥ २४६ ॥ एवं तयोरालपतोरागात् क्रोधारुणेक्षणः । विद्याधरो वज्रवेगाभिधानोऽशनिवेगसूः ॥ २४७ ॥ उत्पाट्योल्लालयामास स विद्याधरदारकः । आर्यपुत्रं समुत्पातिखेचरभ्रमदायिनम् ॥२४८ ॥ हा नाथ नाथ ! दैवेन निहताऽस्मीति भाषिणी । मूर्च्छया सा महीपृष्ठे शीर्णपर्णमिवापतत् ॥ २४९ ॥ क्रुद्धः सन्नार्यपुत्रोऽपि मुष्ट्या मशकमुष्टिवत् । वज्रौजसा वज्रवेगमवधीत् तं दुराशयम् ॥२५० ॥ अक्षताङ्गस्तदभ्यर्णमार्यपुत्रः समाययौ । नेत्रनीलोत्पलानन्दं जनयंश्चन्द्रमा इव ॥ २५१॥ १ संकल्पपूर्वकम् । २ परधनम्। ३ अधीरेक्षणे। ४ अतिशयेन ।
YAY28XXXXXXXXXXXXXXXXX
सनत्कुमार
वृत्तान्तनिवेदनम्।
|॥ १९२॥