________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥। १९१ ॥
DEDEDEDERE
CREDERERY
अभ्युत्थानं भानुवेगः कृत्वैवं तमभाषत । दिष्ट्या नः सदनं पुण्यं पुण्यराशिर्यदागमः ॥ २२४ ॥ आकृत्याऽपि ज्ञायसे त्वं महावश्यो महाभुजः । इन्दोः क्षीरार्णवाज्जन्म मूर्त्याऽपि ह्यनुमीयते ॥ २२५ ॥ यत् कन्यानां त्वमुचितो वरोऽसीति मयाऽर्थ्यसे । इमाः परिणयाष्टापि रत्नं स्वर्णे हि योज्यते ॥ २२६ ॥ एवमभ्यर्थितस्तेन तदैव विधिपूर्वकम् । ता दिश्रिय इवाष्टापि पर्यणैषीत् सखा तव ॥ २२७ ॥ ताभिः समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणः । निद्रासुखं चान्वभवद् रत्नपर्यङ्कमास्थितः ॥ २२८ ॥ निद्रापराजितं चैतमसिताक्षः क्षणादपि । उत्क्षिप्यान्यत्र चिक्षेप बलिभ्योऽपि छलं बलिः ॥ २२९ ॥ पश्यन् सखा ते निद्रान्ते स्वं भूमिष्ठं सकङ्कणम् । एकाकिनमरण्यान्तर्दध्यौ किमिदमित्यथ ॥ २३० ॥ असावटन्नटव्यन्तरेकाकी पूर्ववत् पुनः । अभ्रंलिहं ददर्शेकं प्रासादं सप्तभूमिकम् ॥ २३१ ॥
I
कस्यापि मायिनोऽदोऽपि मायाविलसितं किमु । इत्यार्मृशन्नार्यपुत्रस्तं प्रासादं समासदत् ॥ २३२ ॥ कस्याश्चिद् योषितस्तत्र कुररीकरुणस्वरम् । अश्रौषीद् रुदितं व्यक्तं वनान्तमपि रोदयत् ॥ २३३ ॥ आर्यपुत्रो दयावीरः प्रासादे तत्र सप्तमीम् । आरोहद् भूमिकां धिष्ण्यविमानभ्रान्तिदायिनीम् ॥ २३४ ॥ सनत्कुमार कौरव्य ! मम जन्मान्तरेऽपि हि । भर्ता भूयास्त्वमेवेति भूयो भूयोऽभिशंसिनीम् ॥ २३५ ॥ अश्रुपूर्णेक्षणां दीनां कन्यामेकामधोमुखीम् । रूपलावण्यपुण्याङ्गीं सखा ते तत्र चैक्षत ॥ २३६ ॥
१ आकाशगामिनम् । २ विचारयन् । ३ कुररीवत् करुणः स्वरो यस्मिन् । ४ धिष्ण्यं नक्षत्रं तारा वा ।
RERERERERERERERERERERERERE
चतुर्थं पर्व
सप्तमः
सर्गः
श्रीसनत्कुमारचक्रिचरितम् ।
सनत्कुमारवृत्तान्तनिवेदनम् ।
॥ १९९ ॥