________________
त्रिषष्टिशलाका
पुरुषचरिते
चतुर्थं पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
॥१८१॥
282828282828282828282828282
अपटीभिरिवौकांसि दिशोऽच्छाद्यन्त रेणुभिः । स्तम्भितानीव सैन्यानि नोद्धर्तुं पादमप्यलम् ॥९९ ॥ पदफेनानि चिह्नानि गच्छतस्तस्य वाजिनः । अशेषाण्यपि भग्नानि पांसुकल्लोलमालया ॥१००॥ न निम्नं नोन्नतं नापि स्थपुटं न गुमाद्यपि । अलक्षि पाताल इव प्रविष्टोऽभूज्जनोऽखिलः ॥१०१ ॥ मूढोपायाः सैनिकास्ते पर्याकुल्यभवन्नथ । अब्धावम्भःपूर्यमाणयानाः सांयात्रिका इव ॥१०२ ॥ नत्वा महेन्द्रसिंहोऽश्वसेनमेवं व्यजिज्ञपत् । देव ! दैवस्य घटना दुर्घटा पश्य खल्वियम् ॥१०३ ॥ अन्यथा हि कुमारः क्व दूरदेशो हयः क्व च । तत्र चाज्ञातशीले व कुमारस्याधिरोहणम् ॥१०४ ॥ कुमारस्यापहरणं तेन दुर्वाजिना क्व च । क वा वात्येयमुद्दण्डरजश्छादितहक्पथा ॥१०५ ॥ पर्यन्तसामन्तमिव दैवं जित्वा तथापि हि । आनेष्याम्यहमन्विष्य स्वमित्रं स्वामिसन्निभम् ॥१०६ ॥ कन्दरेषु गिरीन्द्राणां तुङ्गेषु शिखरेषु च । निरन्तरस्तरुस्तोमदुर्गमास्वटवीषु च ॥१०७ ॥ रोधोरन्ध्रेषु पातालकल्पेषु सरितामपि । निर्जलेष्वपि देशेषु विषमेष्वपरेष्वपि ॥ १०८ ॥ ममाल्पपरिवारस्य क्वचिदेकाकिनोऽपि वा । ईषत्करं चरस्येव कुमारान्वेषणं प्रभो ! ॥१०९ ॥ देवस्यामितसैन्यस्यासम्मातो यत्र कुत्रचित् । तन्नाह हुस्वरथ्यायां प्रवेश इव दन्तिनः ॥ ११० ॥ भूयो भूयोऽप्येवमुक्त्वा पादलग्नेन तेन तु । निवर्तितोऽश्वसेनस्तु दुःखितो नगरं ययौ ॥ १११ ॥
१ यथा गृहाणि अपटीभिः यमनिकाभिश्छाद्यन्ते तथा । २ स्थापयितुम् । ३ समप्रदेशम् । ४ अज्ञातं शीलं यस्य तस्मिन्नश्वे । ५ रोधसां तीराणां रन्ध्रेषु । ६ दूतस्य ।
828282828282828282828282828
अश्वक्रीडा।
॥१८१॥