________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १८० ॥
FREDEREREREREREREREREREREREI
तदा च राज्ञोऽश्वपतिः प्राहिणोत् प्राभृते हयान् । धारापञ्चकचतुरान् सर्वलक्षणलक्षितान् ॥ ८८ ॥ नाम्ना जलधिकल्लोलं कल्लोलमिव चञ्चलम् । एकं सनत्कुमारस्याप्यर्पयामास वाजिनम् ॥ ८९ ॥ त्यक्त्वा क्रीडां कुमारस्तमारुरोह तुरङ्गमम् । हस्त्यश्वे राजपुत्राणां कौतुकं सर्वतोऽधिकम् ॥ ९० ॥ कशामुत्क्षिप्य चैकेन वल्गां चैकेन पाणिना । आँसनास्पृष्टपर्याण ऊरूभ्यां प्रैरयच्च तम् ॥ ९१ ॥ पर्यधाविष्ट वेगेन पादैः क्ष्मामस्पृशन्निव । गच्छन् बहुतरं व्योम्नि सोऽश्वान् द्रष्टुं रवेरिव ॥ ९२ ॥ वल्गया चकृषे सोऽश्वः कुमारेण यथा यथा । तथा तथा विपरीतशिक्षोऽधिकमधावत ॥ ९३ ॥ सादिनां राजपुत्राणां धावतामपि मध्यतः । निर्ययौ स क्षणादश्वोऽश्वमूर्तिरिव राक्षसः ॥ ९४ ॥ पश्यतामपि भूपानामुँडूनामिव चन्द्रमाः । स आरूढकुमारोऽश्वोऽभूददृश्यः क्षणादपि ॥ ९५ ॥ अश्वेन सूनुमाकृष्टं नदीपूरेण पोतवत् । प्रत्यानेतुमन्वचालीदश्वसेनोऽश्वसेनया ॥ ९६ ॥ यात्यसौ यात्यसावश्वः पदान्येतानि तस्य हि । फेनलालस्तस्य चेमा यावदाख्यदिदं जनः ॥ ९७ ॥ तावद् वात्योदभूच्चण्डा पूर्णब्रह्माण्डभस्त्रिका | अकालिकी कालरात्रिरिवान्धकरणी दृशाम् ॥ ९८ ॥
॥ युग्मम् ॥
१ धारा अश्वस्य गतिविशेषः । २ अश्वस्य ताडनी कशा 'चाबुक' इति भाषायाम् । ३ वल्गा " लगाम" इति भाषायाम् । ४ आसनेनोपवेशनेनास्पृष्टं पर्याणं येन सः । ५ विपरीता शिक्षा यस्य सः । ६ अश्ववाराणाम् ७ नक्षत्राणाम् । ८ वायुसमूहो वात्या ।
'DEDEDEDEREREDEREREDEREREDER
चतुर्थं पर्व
सप्तमः सर्गः
श्रीसनत्कुमारचक्रि
चरितम् ।
अश्वक्रीडा ।
॥ १८० ॥