________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १७८ ॥
D G D G D G DERY
DERERE
निर्माय चैत्यपूजां च साधुपार्श्वमुपेत्य च । जिनधर्मः परिव्रज्यामुपादत्त यथाविधि ॥ ६२॥ निर्गत्य नगराच्छैलशृङ्गं समधिरुह्य च । संन्यस्य पक्षं पूर्वस्यां कायोत्सर्गं व्यधत्त सः ॥ ६३॥ अपरास्वपि दिक्ष्वेवं कायोत्सर्गं स निर्ममे । त्रोटिभिस्त्रोट्यमानोऽपि गृध्रकङ्कादिभिः खगैः ॥ ६४॥ सहमानो व्यथामेवं नमस्कारपरायणः । विपद्य कल्पे सौधर्मे स इन्द्रः समजायत ॥ ६५ ॥ मृत्वा त्रिदण्डिकः सोऽपि ह्याभियोगेन कर्मणा । शक्रस्य वाहनमभूदैरावण इति द्विपः ॥ ६६ ॥ सोऽपि पूर्णैरावणायुश्च्युत्वा जीवस्त्रिदण्डिनः । भवे भ्रान्त्वाऽसिताक्षाख्यो बभूव किल यक्षराट् ॥ ६७ ॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । कुरुजाङ्गलदेशेऽभून्नगरं हस्तिनापुरम् ॥ ६८ ॥ तत्राश्वसेनोऽश्वसेनाच्छादितावनिमण्डलः । मण्डलाग्रजितारातिमण्डलोऽभून्महीपतिः ॥ ६९ ॥ तस्मिंश्च गुणरत्नानां रोहणाचलसन्निभे । दुग्धे जलकृमिरिव न दोषकणिकाऽप्यभूत् ॥ ७० ॥
अस्याहं तृणवदिति सौभाग्यस्याभिकाङ्क्षया । असिधाराव्रतं कर्तुमिव श्रीस्तदसौ स्थिता ॥ ७१ ॥ आगतेष्वर्थिषु दधौ स हर्षमतिशायिनम् । व्यषीदच्च स्वदित्सानुमानेन स्तोकयाचिषु ॥ ७२ ॥ अभूत् तस्य महादेवी सहदेवीति नामतः । काऽपि देवीव रूपेण महीतलमुपागता ॥ ७३ ॥ चिरं शक्रश्रियं भुक्त्वा कल्पात् पूर्णायुरादिमात् । स जीवो जिनधर्मस्य तस्याः कुक्षाववातरत् ॥ ७४ ॥
१ अनशनं कृत्वा । २ पार्श्वभागम् । ३ चञ्चभिः । ४ पञ्चपरमेष्ठिनमस्कारगणनापरायणः । ५ मण्डलाग्रेण खड्गेन जितं शत्रुमण्डलं येन सः। ६ तस्य खड्गे । ७ दातुमिच्छाया अनुमानेनाल्पार्थिषु ।
DEDEDEREREDEREREREDERERURY
चतुर्थं पर्व
सप्तमः सर्गः श्रीसनत्कुमारचक्रि
चरितम् ।
सरत्चक्रिणः गर्भावतारः ।
।। १७८ ॥