________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥ १७७ ॥
¡CREDEREREDEREREREREREREREDE
इतश्च नागदत्तोऽपि प्रियाविरहदुःखितः । आर्तध्यानान्मृतोऽभ्राम्यत् तिर्यग्योनिषु जन्तुषु ॥ ४८ ॥ भवं भ्रान्त्वा चिरं सोऽथ पुरे सिंहपुराभिधे । अग्निशर्माऽभिधानेन द्विजन्मतनयोऽभवत् ॥ ४९ ॥ कालेन च त्रिदण्डित्वं स आदाय समाययौ । पुरं रत्नपुरं तीव्रद्विमासादितपोरतः ॥ ५० ॥ तत्र चासीत् पुरे राजा नामतो हरिवाहनः । स च भागवतोऽश्रौषीत् परिव्राजं तमागतम् ॥ ५१ ॥ राज्ञा निमन्त्रितस्तेन स पारणकवासरे । राजौकस्यागतं दैवाज्जिनधर्मं ददर्श च ॥ ५२ ॥ ततः प्राग्जन्मवैरेण ऋषी रोषारुणेक्षणः । बभाषे योजितकरं नरेन्द्रं हरिवाहनम् ॥ ५३ ॥
२
पृष्ठेऽस्य श्रेष्ठो न्यस्यात्युष्णपायसभाजनम् । चेद् भोजयसि मां राजंस्तदा भुञ्जेऽन्यथा न हि ॥ ५४ ॥ पृष्ठेऽन्यपुंसो विन्यस्य स्थालं त्वां भोजयाम्यहम् । इत्युक्तो भूभुजा भूयः स क्रुद्धो मुनिरब्रवीत् ॥ ५५ ॥ अस्यैव पृष्ठे विन्यस्य स्थालमत्युष्णपायसम् । भुञ्जेऽहं भूभुजां नाथाकृतार्थो यामि वा ध्रुवम् ॥ ५६ ॥ राजा भागवतत्वेन प्रत्यपद्यत तद्वचः । जिनशासनबाह्यानां विवेकः कीदृशो नृणाम् ? ॥ ५७ ॥ राजाज्ञया दत्तपृष्ठो भुञ्जानस्य द्विजन्मनः । स्थालतापं सोऽधिसेहे दवानलमिव द्विपः ॥ ५८ ॥ कर्मणः प्राक्तनस्यैव मदीयस्य फलं ह्यदः । सख्याऽनेन त्रुट्यत्वेतदिति चाचिन्तयच्चिरम् ॥ ५९ ॥ भुक्ते तस्मिन् समुच्चख्ने सासृग्मांसवसारसान् । पृष्ठात् पायसपात्री सा सपङ्केव चितेष्टिका ॥ ६० ॥ गत्वौको लोकमाहूय स्वकीयं सर्वमप्यथ । अक्षमयज्जिनधर्मो जिनधर्मविचक्षणः ॥ ६१ ॥
१ वैष्णवः । २ राजगृहे । ३ स्वीचकार । ४ अनेन मित्रेण कर्मच्छेदकरूपेण । ५ गृहम् ।
FRERERERERERERERERERERERERY
चतुर्थं पर्व
सप्तमः सर्गः
श्रीसनत्कुमारचक्रिचरितम् ।
पूर्वभवः ।
।। १७७ ॥